SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ जान्युआरी २०१३ - " त्वदीयगाम्भीर्यतुलां समेत्य, रत्नाकरः किं समबोभवीच्च । सर्वासु दिक्षु प्रसरज्जलौघो, व्यापी चतुर्युग् दशरत्नखानिः ॥७४॥ त्वत्तेजसाऽपास्मितपद्मपाणिः, स्पद्ध सृजन् दीपितदिग्मुखेन । विकर्तनत्वं समवाप को वा, प्रणीतसाम्ये महतां न सीदति ॥७५॥ कवीश्वरेणो (णा ) ऽथ विधुस्तुलाकृत्, त्वदीयकीर्त्या खलु चिन्तना सा । दोषाकरः किन्तु शशी कलङ्की, कीर्तिः सदाह्लादक प्रशस्या ॥७६॥ संल्लब्धवर्णैरुपमीयते मा, देवाद्रिणा किं महिमा त्वदीयः । सा कल्पना मे हृदि भासते च, प्रमाणभाजा किममेयमानः ॥७७॥৷ उरीकृतं त्वद्वदनेन पद्मं गन्धाकृतिभ्यां च निजोपमायाम् । षडंहिझंकारगिरा समीर - प्रेङ्खोलितैर्मुद्वदनैस्तनोति ॥७८॥ असङ्ख्यवारीश्वरमेघपुष्प - सुबिन्दवस्ते गणितुं हि शक्याः । चिदा भवन्तीति भवद्गुणौघो, विभो ! गणेयो न कदापि केन ॥ ७९ ॥ त्वदङ्गसौन्दर्यभरं विचिन्त्य, जितोऽहमेतेन रतेश्च पत्या । स्वाङ्गं त्रिनेत्राक्षिहुताशकीले द्रुतं ततोऽनङ्ग इति प्रसिद्धिः ॥८०॥ एतीष (श! ? ) पक्षान्तसुधांशुबिम्बं यथैक्ष्य हर्षं रजनीशरुप्रियः । विकस्वरं त्वद्वदनं विलोकयन्, मुनीश ! लेभे हरिषं ततोऽधिकम् ॥ ८१ ॥ बालार्कबिम्बं प्रविलोक्य दीप्रं, लीलारसोत्को भवतीति कोकः । त्वद्दर्शनं वीक्ष्य मुमुक्षुराज!, मनो मदीयं प्रमदप्रफुल्लम् ॥८२॥ आकर्ण्य मेघस्तनितं शिखण्डी, विनिर्मिमीते किल ताण्डवं मुदः । निपीय भावत्कगुणोत्करं हि, हर्षप्रकर्षात् किल हष्टचित्तः ॥८३॥ चेतांसि चात्यन्तचलानि लोके, प्रसिद्धिरेषा मरुतात् प्रवर्तते । भवदुणालीस्तवने ध्रुवीभवन्मनो मदीयं हरतीति तां च ॥८४॥ जगत्त्रये द्यौम (र्म)हती च तस्यां देवास्ततस्तेषु महान् महेन्द्रः । त्वदीयदेहातिमनोज्ञलक्ष्मीं, द्रष्टुं स जातोऽपि सहस्रनेत्रः ॥८५॥ यद्वक्त्रलक्ष्म्या किल निर्जितोऽसौ, व्रीडान्मृगाङ्कः स्वकरान्तरालम् । लात्वा च कुष्टं ग्रसतेऽब्धिजन्म (न्मा), शङ्के शशाङ्कश्च मलीमसं हि ॥८६॥ अन्ये तु कूपा इह सूरयस्ते, त्वं सागरोऽपारगुणावलम्बी । किं तारकास्सन्ति नभस्यनन्ताः सहस्रपादः कतमस्तुला हि ॥८७॥ , Jain Education International " १६९ For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy