SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १७० अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ प्रसूतवान् यं च सहस्रपादः, पदेन पङ्गश्च कथं स शौरिः । प्राप्नोति पुत्रो जनकस्य साम्य-मत्रोत्तरं नोऽजनि चित्रभानुः ।।८८।। भवत्प्रतापाक्रमणे स्फुटीभवन्, सहस्रसङ्ख्यैश्चरणैश्च पङ्गः । सूरीश! लोकस्पृहणीयरूपा-तिरेकसन्दोहनिवासभूमे ॥८९॥ युग्मम् ।। स्वाङ्कोपविष्टा हि गुणास्त्वदीयाः, स्पृशन्ति विश्वत्रितयं शयैर्विना । देशान्तरं यान्ति पादैविना कि-मेतच्चरित्रं मुनिराज! चित्रकृत् ॥१०॥ जानेऽघिराजीवलसन्नखैः श्री-सूरीश्वरो यो खलु दीप्रदीपान् । पुरावृणीते विशदं शिवायनं, भव्याय संलोकयितुं प्रधानम् ॥९१।। दुग्धाम्बुधिः शीलविनिर्जितः स्म, प्रकामगम्भीरगुणाद् वरेण्यात् । सूरीश्वरेण क्रमपद्मयुग्मं, मन्ये स्फुरल्लाञ्छनकैतवेन ॥९॥ त्वदंहिसंघर्षणगईऋद्धि-बलत्वमेति स्म च पल्लवो यः(?) । सृजन्नपि त्वच्छयतुल्यमस्तु, पुनः कथं नापि सदाप्रवालः ॥९३।। तवांऽहिणा चैव जिताः सरोवरे, पद्मा वितन्वन्ति तपो जलान्तरे । आकण्ठमग्ना भ्रमरारवोपधेः, कुर्वन्ति सूरीश्वरनिस्वनं ध्रुवम् ॥९४॥ विधिरिव धरा सूरिस्वाम्यावलीगणने स्म स, सृजति गणने स्वामिल्लेखां खटीशकलेन ते ।। अंजनि कुतकी गङ्गाऽऽकाशे त्यजत्तव तां च सा, भुवि शिवगिरिस्तुल्याभावादयं स च वर्तते ॥९५।। [हरिणी] इत्थं सुधीशस्तवनोचिताना-माजन्म सम्यक्श्रितसवतानाम् । जनौघगानीकृतसद्गुणानां, भव्योत्पलोद्बोधसुधाकराणाम् ॥९६॥ [उपजातिः] पाण्डित्यचातुर्यकलाकराणां, जितस्वगाम्भीर्यजलाकराणाम् । श्रेयोलतावृद्धिपयोधराणां, स्थैर्यैरपध्वस्तधराधराणाम् ॥९७|| श्रीश्रीमतां पावनमानसानां, तेषां कृपाजीवनमानसानाम् । भव्यावलीपूरितकामितानां, सुरेन्द्रमावलिमानितानाम् ॥९८।। शिष्येष्टशिक्षाकरणप्रवीणः, प्रेमद्रुमालीजलमुग्धुरीणः । इदंसमायां मयका न कोऽपि, प्रसादलेखस्समवापि चाऽत्र ॥९९।। प्रसद्य तत्सौववपुःसमाधि-वदावदाः श्रीगुरुभिः प्रसाद्याः । प्रसादलेखाश्च मनोमयूर-गर्जन्नवाम्भोदसनाभयो मे ॥१००|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy