Book Title: Anusandhan 2013 03 SrNo 60
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 191
________________ १७१ जान्युआरी - २०१३ निरन्तरं सत्प्रणतिर्मदीया-ऽवधारणीया त्रिविधं त्रिसन्ध्यम् । स्वसेवकस्फारकृतप्रसादैः, श्रीतातपादैश्च गतप्रमादैः ॥१०१।। प्रोन्मादिवादिगजययूथमृगारिरूपाः, श्रीपाठकावलिलसत्तिलकस्वरूपाः । सन्तर्जितस्वतनुकान्तिसुवर्णवर्णाः, श्रीमद्विनीतविजयाभिधलब्धवर्णाः ॥१०२।। [वसन्त०] जगत्त्रयीपण्डितमण्डलेन्द्रा, यशोभिधाना विजया जयन्ति । श्रीपूज्यपादाम्बुजमत्तभृङ्गाः, प्रज्ञाप्रकर्षप्रतिभेशचङ्गाः ॥१०३।। [उपजातिः] श्रीप्राज्ञलक्ष्मीविजया जिनोक्ति-सुवर्णशुद्धौ कषपट्टतुल्याः । तत्त्वाभिधाना विजयाः प्रधानाः, श्रीमद्गुरोर्भक्तिसुसावधानाः ॥१०४|| श्रीमुक्तिचन्द्रा गणिधोरणीन्द्राः, सरस्वतीसद्ममुखारविन्दाः । सौभाग्यगोत्रा विजया मनीषा-नदीप्रवाहोद्धृतवादिवृक्षाः ॥१०५॥ इत्यादिदीप्यत्तमसाधुसाध्वी-कदम्बकानामनिशं नतिश्च । स्फुटं प्रसाद्याऽनुनतिः प्रसद्य, श्रीतातपादैर्गतदुर्विषादैः ॥१०६।। अत्रत्य-पण्डितयशः-सागरो गणिशब्दभाक् । ऋद्धिसागरसंज्ञश्च, विनयादिमसागरः ।।१०७|| [अनुष्टुप्] अजितप्रभुगोत्रश्च, आगमादिमसागरः । यशस्वत्सागराख्यातिः, सुन्दराग्यमसागरः ॥१०८।। सुजाणसागराभिख्यो, गोतमात् सागराभिधः । ऋषभादिवर्धमानौ, सागरौ सुखसागरः ॥१०९।। स्थानवासी दीपचन्द्रो, गजसागरसंज्ञकः । एकविंशतिसाधूना-मवधार्या नतिः सदा ॥११०।। विज्ञप्त्युदन्ताः स्फुटमध्यपत्रात्, श्रीतातपादैरवधारणीयाः । अत्रत्यसङ्घः कुरुते त्रिसायं, त्वद्भिक्तिमान् सत्प्रणति प्रमोदम् ॥१११।। [उपजाति:] गर्जन्मेघगणं मयूरपृथुकः शावः सवित्री यथा । भर्तारं तरुणी चकोरनिकरं पीयूषरुक्चन्द्रिकाम् । चक्रो भास्करमण्डलं च करटी विन्ध्याद्रिभूमि तथा, श्रीमत्पूज्यपदारविन्दयुगलं ध्यायामि नित्यं हृदि ॥११२॥ [शार्दूल०] सदोदयैः श्रीगुरुभिः प्रसाद्यं, कार्यं स्वशिष्योचितमेव तुष्ट्यै । श्रीमत्तपागच्छनभोऽङ्गणाः , पयोब्धिफेनोज्ज्वलकीर्तिपुजैः ॥११३।। [उपजाति:] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244