Book Title: Anusandhan 1998 00 SrNo 11 Author(s): Shilchandrasuri Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad View full book textPage 9
________________ 4 ४ सदर्थमुक्तोपमतारकाय सुबन्धुरारामजयाङ्गसार । सदर्थमुक्तोपमतारकाय सुबन्धुरामजयाङ्गसार ||३|| १. सदर्थः समर्थः। २. मुक्तोपमः । ३. तारण स्त्रीरहित (?) । ४. अङ्ग इति कोमलामन्त्रणे । ५. सा लक्ष्मीः तां राति ददाति (सार) । ६. सदर्थः सद्भिः अर्थ्यते । अथवा सन्तः रुचिरा अर्था भावा यस्य । ७. मुक्तोपमः लक्ष्मीरहितः मुक्तत्वात् । ८. तारं भास्वरं कारं (कार्य) यस्य ( स तारकाय ) । ९. सुबन्धुः शोभनबान्धवः उपकारित्वात् । १०. अरीणां समूहः आरम् । आमा रोगाः । तेषां जयो यत्र (सुबन्धुः आर - आम - जय ) । ११. अङ्गेन सारः प्रधान: (अङ्गसारः) ॥३॥ संत्यागमासारवरङ्गनाना-दराधिकान्तो लुसमाननन्द । सत्यागमौसारवरङ्गनाऽनादराधिकान्तो लसमाननन्द ||४|| - १. सत्यागमासारवरङ्ग । सत्यसिद्धान्तस्य (आ) सारो वर्षः तेन रम्यदेह । २. नानादराधिकान्तः-नानाभयाधिकानां मनः पीडानाम् अन्तो विनाशो यस्य (नाना-दर-अधिक-अन्त (दर: भयम्) । ३. देदीप्यमानदेह । ४. सत्याग सदान (स-त्याग – त्यागेन दानेन सहित ) । ५. मासार श्रीवर (मा-लक्ष्मी: तस्याः सारः) । ६. वा (व) राङ्गना: नायिकाः तासु अनादरः तेन अधिकतो रमणीयः (अधि-अधिकतः कान्तः रमणीयः । वराङ्गना - अनादर - अधि-कान्त) | ७. अलसश्चासौ मानश्च पूजा तेन नन्दति वर्धते सः [लसश्चासौ मानश्च पूजा ] (लस-माननन्द) । लसः सुशोभः ॥४॥ २ गुरो सदालोक बाल भाल विभावरीनाथविभास्वभाव । ५ वामेय में कामितका तनु श्री - गरो सदालोकनवाऽऽलभा ॥५॥ Jain Education International १. संत् प्रधानम् । आलोको ज्ञानं यस्य (सत् - आलोक) । २. गुरुललाटे चन्द्र-विभावत् स्वभावो यस्य निर्मलत्वात् (न बाल भाल- विभावरीनाथ - विभास्वभाव । न बाल अबाल अर्थात् गुरु, लाल- ललाट, विभावरीनाथ-चन्द्र) । - For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 122