Book Title: Anusandhan 1998 00 SrNo 11
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
66
स्थितं पुण्डरीकाचलस्यावतारे - ऽखिलक्ष्माधरश्रेणिशृङ्गारहारे । तृतीयं जिनं कुन्ददन्तं भदन्तं स्तुवे पावके भूधरे शंभवं तम् ॥ ५ (? ४) । प्रभो ! मज्जता भीमसंसारकूपे मया देव ! लब्धोऽसि दु:खैकरूपे । दृढालम्बनं यस्त्वमेवोल्लसन्तं स्तुवे पावके भूधरे शंभवं तम् ॥६ (५) ॥ ददास्यङ्गिनां देव ! सर्वार्थसिद्धिं हरस्युग्रमिथ्यात्वमोहादिबुद्धिम् । अतोऽभीष्टदो यस्त्वमेवोल्लसन्तं स्तुवे पावके भूधरे शंभवं तम् ॥७ (६)॥ प्रभो ! देवरत्नं मया लब्धमद्य समासादितः कल्पवृक्षोऽपि सद्यः । यतः प्रापि भाग्योदयैर्यो भवन्तं स्तुवे पावके भूधरे शंभवं तम् ॥८ (७)॥ चांपानेरपुरावतंसविशदश्रीपावकाद्रौ स्थितं सार्वं शंभवनायकं त्रिभुवनालङ्कारहारोपमम् । इत्थं यो गुरुभक्तिभावकलितः संस्तौति तं वृण्वते ताः सर्वा अपि मङ्गलोत्सवरमा भोगान्विताः सम्पदः ॥९ (८)॥
इति श्रीपावकपर्वतमण्डन शंभवजिनस्तोत्रं सम्पूर्णम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122