SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ 66 स्थितं पुण्डरीकाचलस्यावतारे - ऽखिलक्ष्माधरश्रेणिशृङ्गारहारे । तृतीयं जिनं कुन्ददन्तं भदन्तं स्तुवे पावके भूधरे शंभवं तम् ॥ ५ (? ४) । प्रभो ! मज्जता भीमसंसारकूपे मया देव ! लब्धोऽसि दु:खैकरूपे । दृढालम्बनं यस्त्वमेवोल्लसन्तं स्तुवे पावके भूधरे शंभवं तम् ॥६ (५) ॥ ददास्यङ्गिनां देव ! सर्वार्थसिद्धिं हरस्युग्रमिथ्यात्वमोहादिबुद्धिम् । अतोऽभीष्टदो यस्त्वमेवोल्लसन्तं स्तुवे पावके भूधरे शंभवं तम् ॥७ (६)॥ प्रभो ! देवरत्नं मया लब्धमद्य समासादितः कल्पवृक्षोऽपि सद्यः । यतः प्रापि भाग्योदयैर्यो भवन्तं स्तुवे पावके भूधरे शंभवं तम् ॥८ (७)॥ चांपानेरपुरावतंसविशदश्रीपावकाद्रौ स्थितं सार्वं शंभवनायकं त्रिभुवनालङ्कारहारोपमम् । इत्थं यो गुरुभक्तिभावकलितः संस्तौति तं वृण्वते ताः सर्वा अपि मङ्गलोत्सवरमा भोगान्विताः सम्पदः ॥९ (८)॥ इति श्रीपावकपर्वतमण्डन शंभवजिनस्तोत्रं सम्पूर्णम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520511
Book TitleAnusandhan 1998 00 SrNo 11
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1998
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy