________________
श्रीहीरविजयसूरिकृता चतुरर्थी वीरस्तुतिः अज्ञातकर्तृकावचूरियुता
- सं. मुनि धुरन्धरविजय
नोंध : जगद्गुरु श्रीहीरविजयसूरिए रचेल एक - पद्यात्मक वीरस्तुति नी अज्ञातकर्तृक अवचूरि एक प्रकीर्ण पत्रमां प्राप्त छे. तेना आधारे आ मूळ पद्यनुं संकलन करेल छे. एक ज पद्यना चार अर्थ थाय ते विशिष्ट काव्यकौशल्य
गणाय.
वीरस्तुतिः
विज्ञानपारगत बालकवीरमानमातङ्गमुक्तममतागमदानतारि ! ॥ कामं तमोहरतरो परसत्पयोजे !
सूरीशहीरविजयस्य भव प्रसन्नः ॥ १ ॥
अवचूरिः
श्रीभगवत्यै नमः
विज्ञान ० व्याख्या | विज्ञाः - निपुणाः, ना:- प्राणिनः, तान् पालयसिरक्षसीति विज्ञानपालः (पार: ) । र-लयोरैक्यत्वात् । तत्संबोधने ॥
तथा गता बाला-ब-वयो र-लयोरैक्यत्वात्- केशा विद्यन्ते यस्य स गतबालो, व्रते गृहीते कचोत्पत्त्यभावत्वात् । स्वार्थे क प्रत्यये गतबालकः, तत्संबो० ॥ तथा मानं - गर्व:, तदेव मातङ्गो - हस्ती, अत्युत्कटत्वात् । तेन मुक्तो वर्जितः। तथा ममता-ममत्वं, तां गमयसि - निवारयसीति ममतागमः, तत्सं० ॥ तथा दं- वैराग्यं विद्यते यस्य स दस्तत्सं० ॥ तथाऽऽनता-प्रणता अरयो - वैरिणो विद्यन्ते यस्य स आनतारिः, तत्सं० ॥ तथा तमोऽज्ञानं अतिशयेन हरसीति तमोहरतरः तत्सं० ॥ न विद्यन्ते परे - वैरिणो यस्य सोऽपरः, तत्सं० ॥
तथा सत्-1 - विद्यमानं पयोजं - कमलं विद्यते यत्र स सत्पयोजः, हस्तपादादिषु कमलाद्याकारत्वात् ।
तथा ई:- लक्ष्मीः, तां सूते इति ईसूः, तत्सं० ॥
Jain Education International
For Private & Personal Use Only
तत्सं०॥
www.jainelibrary.org