________________
68
तथा हे ईश - स्वामिन् ! ॥ [हि-निश्चितं,] तथा ईं लक्ष्मी, रासीति ईरः, तत्सं० ।। तथा नास्ति भवः-संसारो यस्य स अभवः, तत्सं० ।।
एवंविध हे वीर! हे वर्द्धमान ! त्वं हि-निश्चितं, काम-अभिलाषः तत् । . जयसि-विजयसे इति क्रियाकारकसम्बन्धः । कथंभूतं कामं ?। वः कलहो विद्यते यत्र तद्विकलहकर्तृत्वात् (?)। कथंभूतस्त्वं !, प्रसन्नः शुभ इति वीरस्तुतिः ॥ १ ॥ प्रथमोऽर्थः ।।
वि० व्याख्या ।। विशिष्टं ज्ञानं विद्यते यस्य स विज्ञानः, तत्सं०॥ तथा कं सुखं विद्यते यस्य स कः, तत्सं०॥
तथा हे वीर ! शूर !, तथा मानो गर्वस्तद्रूपो यो मतङ्गः-नीचस्वभावात् चाण्ड(ण्डा)लः तेन मुक्तो वर्जितः, तत्सं० ॥
तथा ता-लक्ष्मी: - रलयोरैक्यत्वात् - तस्य आगमो-आगमनं विद्यते यस्य स तागमः, तत्सं० ॥
तथा दानं-उत्सर्गः, तस्य ता - लक्ष्मी:, तस्या आलि:-श्रेणिविद्यते यस्य स दानतालिः, तत्सं० ॥ .
तथा विजयो-जयः, तस्य तरुः (वृक्ष), तत्सं० ॥ तथा हे पर!-हे सर्वोत्कृष्ट ! ॥ .. तथा सतामुत्तमानां पासि-रक्षसीति सत्पः, तत्सं० ।। • तथा आः - ब्रह्मा-विष्णु-महेशाः, तेषां जिर्जेता अजिः, तत्सं०।।
तथा सूरयः -पण्डिताः, तेषां ईशा: -स्वामिनः, तेषु मध्ये हीर इव हीरः . सूरीशहीरः, तत्सं० ॥
तथा भवं-श्रेयः प्रासि-पूरयसीति भवप्रः, तत्सं० ।।
तथा हे सन् ! –उत्तम !, एवंविध हे पारगतवार ! - तीर्थंकरसमूह !, त्वं काममत्यर्थं मम-मे, तमोऽज्ञानं, हर-निवारय, इति क्रियाकारकसम्बन्धः ।
कथंभूतः सः या-लक्ष्मीविद्यते यस्य स यः, तत्सं०।। पुनर्नः ज्ञानं विद्यते यस्य स नः, तत्सं० ॥
इति सर्वतीर्थंकरसाधारणस्तुतिः ॥ २ ॥ द्वितीयोऽर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org