________________
69
विज्ञान० व्याख्या | विज्ञानं-कला, तस्य पारो विद्यते यस्मात् स विज्ञानपार: तत्सं० ॥
तथा गतः वः - कलहो विद्यते यस्य स गतवः, तत्सं० ॥
तथा नास्ति र: - कामो येषां ते अराः, एवंविधा ये कवयः - कवितार:, तेषां ई-लक्ष्मी रासि-ददासीति अरकवीरः, तत्सं० ॥
तथा मां-लक्ष्मी नयसि -प्रापयसीति मानः, तत्सं० ॥
दानं-क्षयः तद्रूपो यो(य:) तालो वृक्षविशेषः-रलयोरैक्यत्वात्-तस्मि[न्] मतङ्गो-हस्ती । यथा हस्ती वृक्षमुन्मूलयति तथा त्वमपि क्षयं निवारयसि, तत्सं० ॥
तथा मुक्ता मा-लक्ष्मी: यैस्ते मुक्तमाः - साधवः, तेषां मत-इष्टः मुक्तममतः, तत्सं० ॥
तथा त:-युद्धं, मोहो-मोढ्यं, रतं-मैथुनं, तेषां लोपो नाश:-रलयोरैक्यत्वात्-, तं रासि-ददासीति तमोहरतलोपरः, तत्सं० ।।
तथा सन्-विद्वान् , तद्रूपं यत् पयोज-कमलं तत्र सूरिस्तरणिः, एवंविधः सन् ईशः-स्वामी सत्पयोजे सूरीशः, तत्सं० ।।
तथा इ:-कामः, तं ईरयन्ति-प्रेरयन्तीति ईराः, तेषां विजयो विद्यते यस्मात् स ईरविजयः, तत्सं० ॥
तथा भवं श्रेयो विद्यते यस्य स भवः, तत्सं० ।।। तथा प्र-प्रकर्षेण सन्-विद्यमानः प्रसन्, तत्सं० ।।
एवंविध हे आगम ! हे सिद्धान्त ! त्वं नोऽस्माकं काम-कन्दर्पं हि निश्चितं स्य-छेदय, इति क्रियाकारकसम्बन्धः ।
इति सिद्धान्तस्तुतिः ॥ ३ ॥ तृतीयोऽर्थः ।।
विज्ञान० व्याख्या ।। विज्ञानं-कला तस्य पार:-प्रान्तः, तं गच्छसि इति विज्ञानपारगः, तत्सं० ॥ ... तः-युद्धं, तं वारयसि-निवारयसीति तवारः, के तवारकः, तत्सं० ॥
तथा वीरा:-शूराः, तेषु मानः-पूजा विद्यते यस्य स वीरमानः, तत्सं०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org