________________
70
तथा मुक्ता-त्यक्ता ममता-ममत्वं येन स मुक्तममतः, तत्सं० ।।
तथा[आ-] समन्तात् गमस्य-ज्ञानस्य दानं-उत्सर्गो विद्यते यस्य स आगमदानः, तत्सं० ।।
तथा ता-लक्ष्मीः, तस्याः आलि: -रलयोरैक्यत्वात्-श्रेणिः विद्यते यस्य स तालिः, तत्सं० रलयोरैक्यत्वात् ।।
तथा तमः हन्तीति तमोह: अर्थात् धर्मः, तत्र रता-आसक्ताः तेषां लोपोऽर्थात् कष्टं, स एव रोऽग्निः, तत्र सत्-शोभनं पयो-नीरं तमोहरतलोपरसत्पयाः, तत्सं० ॥
तथा जिर्जेता, तत्सं० ॥
एवंविध हे मातङ्गयक्ष! त्वं काममत्यर्थं सूरीशहीरविजयस्य श्रीहीरविजयसूरेः प्रसन्नो भव, इति क्रियाकारकसम्बन्धः ।। इति यक्षस्तुतिः ॥ ४ ॥ चतुर्थोऽर्थः ।।
इति अवचूरिः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org