Book Title: Anusandhan 1998 00 SrNo 11
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
सामान्येन (पवयणमाइ० ) || विशेषेण (पंचसमिए०) ||
अनर्थपर एतत्त्यागः प्रवचनमातृत्यागः । अव्यक्तस्य- भावबालस्य । (अणत्थपरे०) || सम्यगेतद् विजानातीति योगः || शिशुर्हि जननीत्यागाद् विनश्यति (सिसुजणणि० ) ॥
अत्र-भावचिन्तायां (वियत्ते एत्थ० ) । एतत्प्रवचनमातृफलभूतो भावपरिणत्या || (एयफलभूते) ॥
55
-
सम्यगेतदनन्तरोदितं विजानाति ( सम्ममेयं ० ) ॥ एतदेवाह - द्विधा परिज्ञा, बोध- तद्गर्भक्रियारूपा, ज्ञ-प्रत्याख्यानभेदात् (दुविहाए ) ॥
आश्वासप्रकाशरूपं द्वीपं दीपं च 'विजानातीति वर्त्तते । इह भवाब्धौ आश्वासदीपः, मोहान्धकारे प्रकाशदीपश्च । आद्यः स्पन्दनं प्लवनं तद्वान्, इतरश्च द्वितीयोऽपि स्थिराऽस्थिरभेदः । ( तहा आसासपयासदीवं) ||
असन्दीन- स्थिरौ तो क्रमात् क्षायिकज्ञान- चारित्ररूपौ तदर्थमुद्यच्छति (असंदीणथिरत्थमुज्जमइ ) ॥
फलं प्रति (अणूसगे) ॥ निःसपत्नश्रामण्यव्यापारः (असंसत्त०) | निर्वाणसाधिकां (भावकिरियं) |
व्याधितसुक्रियाज्ञातेन ( वाहियसुकिरियानाएण) || यद् तथा न कण्डूलकण्डूयनकारिवद् विपर्यस्तः (विण्णाया सरूवेण) || वेदनाया इति प्रक्रमः (निव्विण्णे०) ||
तं व्याधिं (तमवगच्छिय) । देवतापूजादिप्रकारत : (जहाविहाणओ) | आरोग्यप्रतिबन्धाद्धेतोः (तप्पडिबंधाओ ) ॥ शिरावेध - क्षारपात भावेऽपि व्याधिशमाद् यदारोग्यं तदवबोधेन इष्टस्यारोग्यस्य निष्पत्तेर्हेतोरनाकुलः ॥ (सिराखाराइजोगेण० इट्ठनिप्फत्तीओ) |
Jain Education International
-
तं सुगुरुं कर्मव्याधिं चाऽवगम्य पूर्वं तृतीयसूत्रोक्तविधानेन प्रतिपन्नः सुक्रियां - प्रव्रज्याम् (तमवगच्छिय पुव्वुत्त० ) ।।
चरणारोग्यप्रतिबन्धविशेषात् (तप्पडिबंधविसेसओ) |
कुशलाशयस्य क्षायोपशमिकभावस्य वृद्धया स्थिरः - चित्तस्थैर्येण सदास्तिमितो भावद्वन्द्वविरहात् प्रशान्तः (कुसलसिद्धीए थिरासयत्तेण ) ||
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122