Book Title: Anusandhan 1998 00 SrNo 11
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 59
________________ 54 इहलोकाद्यपेक्षया (आसंसा०), मोक्षार्थी (आययट्ठी) ।। स एवंभूतस्तत्सूत्रमुपैति (स तमुवेइ०) ।। सर्वथा-याथातथ्येन ।। यदुतैवमधीतं सम्यग् नियुक्तं (एयं धीराण०) ।। अन्यथाऽविध्यध्ययनेऽनियोगो विपर्यासो भवति (अण्णहा०)॥ विधिनाऽनाराधनायां न किञ्चिदिष्टमोक्षांदिफलं, तत्त्वतस्तदनारम्भादेव । (अणाराहणाए न किंचि, तदणा०) ॥ इहैव लिङ्गमाह - अत्राऽनाराधनायां, मार्गदेशनायां तात्त्विकायां शृण्वतो दुःखं भवति (एत्थ मग्ग०) ॥ उक्तं च - "शुद्धदेशना हि क्षुद्रसत्त्वमृगयूथसंत्रासनसिंहनादः" ॥ तदवधीरणा मनाग् लघुतरकर्मणो न दुःखम् ।। तथाऽत (तत्-) प्रतिपत्ति:ततोऽपि लघुतरकर्मणो नावधीरणा ।। ततः किम् ? इत्याह-नैवमनाराधनायाऽधीतमधीतं सूत्रम् । अवगमस्य सम्यग्बोधस्य विरहात् । (नेवमहीयमहीयं०)।। मैषा मार्गगामिन एकान्तमनाराधना भवति, सम्यक्त्वादियोगे सर्वथाऽसक्रियाऽयोगात् (न एसा मग्गगामिणो) । ___ अनर्थमुखा, उन्मादादिभावेन (विराहणा अणत्थमुहा) । इयं गुरुतरदोषापेक्षयाऽर्थहेतुः पारम्पर्येण मोक्षाङ्गमेवेत्यर्थः । तस्य-मोक्षगमनस्यैवारम्भात् , कण्टकज्वरमोहोपेतमार्गगन्तृवत् । (अत्थहेऊ, तस्सारंभओ धुवं) । उक्तं च "मुनेर्मार्गप्रवृत्तिर्या सदोषाऽपि गुणावहा । कण्टकज्वरसंमोह - युक्तस्येव सदध्वनि ॥१॥" एतद्भावे लिङ्गमाह - अत्र विराधनायां सत्यां मार्गदेशनायां तात्त्विकायां अनभिनिवेशः शृण्वतो भवति, हेयोपादेयतामधिकृत्य (एत्थ मग्गदेसणाए अणभिनिवेसो) ॥ तथा प्रतिपत्तिमात्रं मनाग् विराधकस्य, नाऽनभिनिवेशः ॥ तथा क्रियारम्भोऽल्पतरविराधकस्य, न प्रतिपत्तिमात्रम् ॥ __एवमपि विराधनयाऽधीतं सूत्रमधीतं, अवगमलेशयोगहेतोः (एवं पि०)। अयं-विराधकः सबीजो नियमेन, सम्यक्त्वादिबीजा(ज)युक्तत्वात् (अयं सबीओ०) ॥ यतो मार्गगामिन एवैषा प्राप्तबीजस्येति भावः, न सामान्येन, किं तर्हि ? अपायबहुलस्य – निरुपक्रमक्लिष्टकर्मवतः (मग्गगामिणो खु०) । ___ निरू(र)पायो यथोदितो मार्गगामीति प्रक्रमः (निरवाए जहोदिए) ।। एतदेवाह सूत्रोक्तकारी भवति सबीजो निरू(र)पाय: (सुत्तुत्तकारी) । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122