Book Title: Aho shrutam E Paripatra 02 Samvat 2071 Meruteras 2015
Author(s): Babulal S Shah
Publisher: Ashapuran Parshwanath Jain Gyanbhandar Ahmedabad
View full book text ________________
यथैवाभ्युदितः सूर्यः, पिदधाति महान्तरम्।
चारित्रपरमज्योति-ोतितात्मा तथा मुनिः॥१६॥ सम्पूर्णतयोदयं प्राप्त आदित्यः स्वप्रकाशेन द्यावापृथिवीविवरं सम्पूरयतीति प्रतीतम् । यथा च तत् सुमहदन्तरम्, तथेदमपि, यच् चारित्रलक्षणपरमज्योतिःप्रकाशितनिजान्तरात्मा महात्मा पिदधाति, तच्चान्तरमात्मपरमात्ममध्यगतमवगन्तव्यम्, समापयति हि तदन्तरं चारित्री, दोषचयरिक्तीकरणस्यैव चारित्रपदार्थत्वात्, तद्विरेके च स्वतः परमात्मभावप्रादुर्भावयोगात्, तथा च कुतस्ततोऽन्तरम् ? न हि व्यतिरिक्तभावाभावे भवत्यन्तरम्, व्यतिरेकस्यैव तद्बीजवादित्यालोचनीयं पटुप्रतिभया। ननु सुलूदितं परमज्योतिर्माहात्म्यम्, साम्प्रतं तु कथं तदाविर्भावस्स्यादित्येव तावदुच्यतामिति चेत् ? अत्रोच्यते
प्रच्छन्नं परमं ज्योति-रात्मनोऽज्ञानभस्मना।
क्षणादाविर्भवत्युग्र-ध्यानवातप्रचारतः॥ १७ ॥ प्रबलतरो हि सध्यानात्मकः समीरणोऽपसारयति सकलमप्यज्ञानभस्मात्मकं परमज्योतिरावरणम्, अपसृते च तस्मिन् नियोगतः प्रादुर्भवति तत्, परमार्थतस्तदपसरणतदाविर्भावयोरनर्थान्तरत्वात्। ध्यानयोगो हि जिनशासनस्य सारस्वरूपः, कर्मक्षयप्रबलनिबन्धनत्वादनन्तरमुक्तिहेतुत्वाच्च, अतो हि निबिडस्याप्यज्ञानस्य विलयः, दुर्वाररागादिदोषनिकुरम्बनिकारः, कैवल्याधिगमः, जीवन्मुक्त्यनुभूत्यवाप्त्या परममुक्तिपरिणतिश्चेति यतितव्यमत्र प्रयत्नतः। यथा च विशुद्धध्यानपरिणतिरधिगम्या स्यात्, तत्प्रकारमपि प्रत्याहुः
परेषां गुणदोषेषु, दृष्टिस्ते विषदायिनी।
स्वगुणानुभवालोक-दृष्टिः पीयूषवर्षिणी ॥ १९ ॥ ननु गुणगोचरा तु दृष्टिरमृतप्रदत्वेनैव प्रसिद्धा, तत् कथं सा विषप्रदा भवितुमर्हतीति चेत्? परगोचरत्वेनेति गृहाण । न च गतमेवं गुणानुरागमाहात्म्येनेति वाच्यम्, विशेषविषयत्वात्, परमज्योतरुपायभूतध्यानलक्षणसाध्यमाश्रित्य तस्या अनुपायतया
12
Loading... Page Navigation 1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132