Book Title: Aho shrutam E Paripatra 02 Samvat 2071 Meruteras 2015
Author(s): Babulal S Shah
Publisher: Ashapuran Parshwanath Jain Gyanbhandar Ahmedabad

View full book text
Previous | Next

Page 28
________________ व्याख्या- हे मुने ! इदं वपुर्देहं यत् यत् वाञ्छति, अर्थाद् वपुर्गतमिन्द्रियसमूह, धार्यधारकाभावादैक्यं, यद्यदभिलषति तत्तदेव वपुषो शरीराय त्वया भवता सु अतिशयेन पुष्टं पुष्टिभावं दत्तं । हे जडमते ! हे मन्दबुद्धे ! तथाऽपि स्वकरपोषितमपि देहं त्वया सार्द्धं भवता सह नैति न याति तर्हि मित्रादयः मित्रकलत्रमातृपितृभातृभर्तृप्रमुखास्त्वया सार्थं किं याति ? अपि तु नैव । पुण्यं सुकृतं पापं दुष्कृतं इति द्वयं भवतस्तव पुष्ठेन पुष्ठिभागेन केटके “सहार्थे तृतीया", यातीह ते यातुमिच्छति शुभाशुभयुगं कर्तुरनुगच्छति निश्चयादितिभावः । तस्मात्कारणाच्छरीरादिषु निजकलत्रादिषु मोहः मुह्यते विकलीभूयतेऽनेनेति मोहस्तं मनागपि स्तोकमपि भवांस्तं मा स्म कृथा भवान्मा कार्कीरिति सूत्रे नाम्नि योगे क्रिया प्रथमपुरुषैकवाक्यमानीतं भवान्मा स्म कृथा इति चिन्त्यमिति काव्यार्थः ।। ९ ।। ॥ गाथा-१०॥ अष्टाविंशतिभेदमात्मनि पुरा रोप्य साधो व्रतं । साक्षीकृत्य जिनान्गुरूनपि कियत्कालं त्वया पालितं । भक्तुं वाञ्छसि शीतवातविहतो भूत्वाऽधुना तव्रतं । दारिद्रोपहतः स्ववान्तमशनं भुङ्क्ते क्षुधार्तोऽपि किं ॥ १० ॥ व्याख्या- हे साधो ! पुरा पूर्व अष्टाविंशतिभेदव्रतं पंचयम-पंचेन्द्रियवश्यचतुःक्रोधादिनिग्रह-त्रिसत्यभावयोगकरण-क्षांति-वैराग्य-मनोवाक्कायनिरोध-शीत मारणान्तिकोपसर्गसहन-ज्ञानादित्रिकरूपास्साधो गुणाः । स्थविरकल्पिकानां मते, (जिनकल्पिकानां मते) जिन(स्थविर)कल्पिकानां मते तु नान्योऽष्टाविंशतितमो गुणः । तदात्मकं वियते-स्वात्मना प्राणत्यागेऽपि न दीयते न संखंड्यते इति व्रतं, आत्मनि स्वविषये संरोप्यार्थादुररीकृत्य अपीति निश्चित्य जिनान् गुरुन् प्रति साक्षीकृत्य व्रतग्रहणकाले “अरिहंतसक्खियं गुरुसक्खियम्” इति वचनात्, कियत्कालं कतिचिदब्दानि त्वया पालितमवित[थ]मित्यर्थः । तत्पूवोक्तव्रतं शीतवातविहतस्सन् सुसीमसमीरपीडितस्त्वमिदृशो भुत्वाऽधुनेदानीं भक्तुं वाञ्छसि शकलीकर्तुमीहसे ? । अत्रोदाहरणं, दरिद्रोपहतः दोर्गत्येन बाधितोऽपि च क्षुधार्तोऽशनार्थितोऽपि सन् स्ववान्तमशनं निजमुखाच्छर्दितं भोजनं किं भुङ्क्ते ? किमश्नाति ? अपि तु न कोऽपीति काव्यार्थः ।। १० ॥ 26

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132