Book Title: Aho shrutam E Paripatra 02 Samvat 2071 Meruteras 2015
Author(s): Babulal S Shah
Publisher: Ashapuran Parshwanath Jain Gyanbhandar Ahmedabad
View full book text ________________
॥ गाथा-१५॥ लब्ध्वा स्वं यदि धर्मदानविषये दातुं न यैः शक्यते। दारिद्रोपहतस्तथाऽपि विषयासक्तिं न मुच्यन्ति ये। धत्वा ये चरणं जिनेश्वरगदितं तस्मिन्सदा नादरा-।
स्तेषां जन्म निरर्थकं गतमजाकण्ठेस्तनाकारवत् ॥ १५ ॥ व्याख्या- यदीति पक्षान्तरे स्वं द्रव्यं मनोभीष्टं स्वयं लब्ध्वा प्राप्य धर्मदानविषयेऽर्थात्सत्पात्रे, पात्रं त्रिविधं तथाहि
उत्तमपत्तं साहु मज्झमपत्तं चेव सावया भणिया। सम्मदिट्ठी जहण्णपत्तं, एहिं सेसा कुपत्ताणि ॥ १४४॥
(गाथासहस्री) तत्र दातुं यैः पुरुषैर्न शक्यते नो विभूयते । अपि च दारिद्रोपहताः कैर्कटकदर्थिताः सन्तास्तथाऽपि ये जना विषयेषु शब्द-रूप-रस-गन्ध-स्पर्शेषु आसक्ति-रतिवाञ्छति विषयासक्तिस्तां न मुच्यन्ति न त्यजन्ति । पुनर्ये जना जिनेन्द्रगदितं सर्वज्ञभाषितं चरणं चारित्रं धृत्वांगीकृत्य तस्मिन् संयमे सदा सर्वदा अनादरास्सालस्यास्स्युरिति तेषामनन्तरोक्तानां त्रयाणां जन्म मनुष्यस्येति गम्यतेऽर्थान्नृभवं निरर्थकं गतं निस्सारतया हारितमिति भावः । काविव ? अजाकण्ठस्तनाकारवदजानिगरणकुचाकाराविव यथा सर्वभक्षागले स्तनौ दुग्धेन विवर्जितौ स्तः, तथाऽपि द्रव्यादीनि प्राप्य धर्मादिकं यैर्न कृतं तैनूभवं मुधा हारितमित्युच्यते । दानं प्राप्यं दत्तं मया नो सुपात्रे तपस्सद्बले नो कृतं चोपकारं । अधीतं न शास्त्रं मया भूरि बुधो(मुधा) गतं हा गतं हा ।। इतिकाव्यार्थः ।। १५ ।।
॥ गाथा-१६॥ दुर्गन्धं नवभिर्वपुः प्रवहति द्वारैरिमैः सततं। तदृष्ट्वाऽपि हि यस्य चेतसि पुननिर्वेदता नास्ति चेत् ॥ तस्यान्यद्भुवि वस्तु कीदृशमहो तत्कारणं कथ्यते।
श्रीखण्डादिभिरङ्गसंस्कृतिरियं व्याख्याति दुर्गन्धताम् ॥ १६ ॥ व्याख्या- हे मुने ! इदं वपुः शरीरं इमैरिति तृतीयाबहुवचनान्तं पदं शब्दस्य कथं सिध्यतीति न बुध्यते मया । अमीभिर्नवभिर्द्विकर्णद्विनयनद्विघ्राणजिह्वापुंचिह्नापायुरूपैः पुरुषस्येति गम्यते । स्त्रीणां वपुरेकादश द्विवक्षोजैर्मिलितैः, पुंचिह्नस्थाने
30
Loading... Page Navigation 1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132