SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ ॥ गाथा-१५॥ लब्ध्वा स्वं यदि धर्मदानविषये दातुं न यैः शक्यते। दारिद्रोपहतस्तथाऽपि विषयासक्तिं न मुच्यन्ति ये। धत्वा ये चरणं जिनेश्वरगदितं तस्मिन्सदा नादरा-। स्तेषां जन्म निरर्थकं गतमजाकण्ठेस्तनाकारवत् ॥ १५ ॥ व्याख्या- यदीति पक्षान्तरे स्वं द्रव्यं मनोभीष्टं स्वयं लब्ध्वा प्राप्य धर्मदानविषयेऽर्थात्सत्पात्रे, पात्रं त्रिविधं तथाहि उत्तमपत्तं साहु मज्झमपत्तं चेव सावया भणिया। सम्मदिट्ठी जहण्णपत्तं, एहिं सेसा कुपत्ताणि ॥ १४४॥ (गाथासहस्री) तत्र दातुं यैः पुरुषैर्न शक्यते नो विभूयते । अपि च दारिद्रोपहताः कैर्कटकदर्थिताः सन्तास्तथाऽपि ये जना विषयेषु शब्द-रूप-रस-गन्ध-स्पर्शेषु आसक्ति-रतिवाञ्छति विषयासक्तिस्तां न मुच्यन्ति न त्यजन्ति । पुनर्ये जना जिनेन्द्रगदितं सर्वज्ञभाषितं चरणं चारित्रं धृत्वांगीकृत्य तस्मिन् संयमे सदा सर्वदा अनादरास्सालस्यास्स्युरिति तेषामनन्तरोक्तानां त्रयाणां जन्म मनुष्यस्येति गम्यतेऽर्थान्नृभवं निरर्थकं गतं निस्सारतया हारितमिति भावः । काविव ? अजाकण्ठस्तनाकारवदजानिगरणकुचाकाराविव यथा सर्वभक्षागले स्तनौ दुग्धेन विवर्जितौ स्तः, तथाऽपि द्रव्यादीनि प्राप्य धर्मादिकं यैर्न कृतं तैनूभवं मुधा हारितमित्युच्यते । दानं प्राप्यं दत्तं मया नो सुपात्रे तपस्सद्बले नो कृतं चोपकारं । अधीतं न शास्त्रं मया भूरि बुधो(मुधा) गतं हा गतं हा ।। इतिकाव्यार्थः ।। १५ ।। ॥ गाथा-१६॥ दुर्गन्धं नवभिर्वपुः प्रवहति द्वारैरिमैः सततं। तदृष्ट्वाऽपि हि यस्य चेतसि पुननिर्वेदता नास्ति चेत् ॥ तस्यान्यद्भुवि वस्तु कीदृशमहो तत्कारणं कथ्यते। श्रीखण्डादिभिरङ्गसंस्कृतिरियं व्याख्याति दुर्गन्धताम् ॥ १६ ॥ व्याख्या- हे मुने ! इदं वपुः शरीरं इमैरिति तृतीयाबहुवचनान्तं पदं शब्दस्य कथं सिध्यतीति न बुध्यते मया । अमीभिर्नवभिर्द्विकर्णद्विनयनद्विघ्राणजिह्वापुंचिह्नापायुरूपैः पुरुषस्येति गम्यते । स्त्रीणां वपुरेकादश द्विवक्षोजैर्मिलितैः, पुंचिह्नस्थाने 30
SR No.523351
Book TitleAho shrutam E Paripatra 02 Samvat 2071 Meruteras 2015
Original Sutra AuthorN/A
AuthorBabulal S Shah
PublisherAshapuran Parshwanath Jain Gyanbhandar Ahmedabad
Publication Year2015
Total Pages132
LanguageHindi, Sanskrit
ClassificationMagazine, India_Aho Shrutgyanam, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy