SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ क्वचिद्योषास्वयूथं कृत्वा मध्यरतो रमते त्यक्त्वा स्थाने कृत्वेति पाठः । चेद्यदि तस्मिन् योषागणे भवतोऽभिलाषता न तव वाञ्छा नास्ति, तर्हि प्रत्यहं निरन्तरं किं भ्राम्यसि किमितस्ततो दाद्यसे [पर्यटसि] ? यत्र तत्र युवतीजननिरीक्षणार्थं भ्रमसीति भावः । किं कर्तुमुचितमित्याह साधुजनस्य मुनिलोकस्य मध्येऽतराले सदाचारतां कृत्वा शोभनमनुष्ठानं विधाय किं न तिष्ठसि ? कथं न वर्तसे इति काव्यार्थः ।। १३ ।। ॥गाथा-१४॥ क्रीतान्नं भवतो भवेत्कदशनं रोषस्तदा श्लाघ्यते। भिक्षायां यदवाप्यते यतिजनैस्तद्भुज्यतेऽत्यादरात् ॥ भिक्षो भाटकसद्मसन्निभतनौ पुष्टिं वृथा मा कृथाः। पुणे किं दिवसावधौ क्षणमपि स्थातुं यमो दास्यति ॥१४॥ व्याख्या- हे साधो ! भवतस्तव क्रीतान्नं भवेत् मौल्येनादत्तं सत् कुत्सितं भोजनं विरसमाहारं स्यात्, तदा रोषः श्लाघ्यते तर्हि भवतोऽपि प्रतिघः प्रशस्यते “मया द्रमादिभिः क्रीत्याऽशनं गृहीतं किमनेन विरसं दत्तमिति” मन्यते तदा युक्तम् । अन्यथा भिक्षायां गौचर्यां यतिजनैरसाधुलोकैर्यद्भोजनं अवाप्यते प्राप्यते तदशनमत्यादराद् भुज्यते अत्यादरेण देहाधारं दीयते । यदुक्तं तित्तगं च कडुअंच कसायं अंबिलं च महुरं लवणं वा। एअलद्धमन्नट्ठपउत्तं महुघयं व भुंजिज्ज संजए ॥२८॥ (अज्ञातोञ्छकुलक) इति वचनात्, हे भिक्षो ! भाटकसद्मसन्निभतनौ भाटकस्य निर्वेशस्य सद्म गृहं तेन सन्निभं सदृशं तनु देहं तत्र पुष्टिं सरसाहारैः पोषणं वृथा निष्कार्येण मा कृथा मा विधेहीति भावः। यथा भाटकगृहस्य कोऽपि भित्यादिकं न संस्करोति, तथा साधुनाऽपि देहपुष्टिरपि न कार्या । किं ज्ञात्वेत्याहः किमिति प्रश्ने दिवसावधौ पूर्णे जाते आयुष्कर्मणो दिनसीम्न्यागते सति क्षणमपि साधारिकषष्टांशमपि यमः स्थातुं दास्यति ? कृतान्वो रक्षितुं वितरिष्यति अर्थात् “पूर्ण आयुषि जाते न यमो मोक्ष्यनियम” इति लोकरूढिः । तद्भवायुरवधौ समाप्ते सति स्वयमेव स्थातुं न केनाऽपि शक्यते इति काव्यार्थः ।। १४ ।। 29
SR No.523351
Book TitleAho shrutam E Paripatra 02 Samvat 2071 Meruteras 2015
Original Sutra AuthorN/A
AuthorBabulal S Shah
PublisherAshapuran Parshwanath Jain Gyanbhandar Ahmedabad
Publication Year2015
Total Pages132
LanguageHindi, Sanskrit
ClassificationMagazine, India_Aho Shrutgyanam, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy