SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ व्याख्या- हे भिक्षो ! दीक्षाग्रहणकालतो भिक्षयोपजीवतीति भिक्षुस्तस्य संबोधने हे भिक्षो ! यत्काले क्षुत्परीषहव्यथिततनु भिक्षोत्थानसमये परेषामनुपलक्षितानां गृहे धाम्नि लघुभाण्डमण्डितकरो भृत्वा धातुमयवर्जितत्वादलाबुदारूमृन्मयपात्रभूषितहस्तः संभूय भिक्षार्थं भ्रमसे शुढेषणद्विचत्वारिंशद्दोषरहिताहारनिमित्तमटसि । तदाऽपि तस्मिन्कालेऽपि भवतस्तव मानापमानेन किं सत्पूजनादरेण किं ? तावता कस्यचिच्छ्रद्धालो गृहे गते सति सद्भाषणोत्थानादिकं कृतं तेन तदा सत्कारपरीषहः सोढव्यः, वा कस्यचिदनार्यगृहे गते सति केनोच्यते रे मुण्ड ! रे शुद्र ! रे शावकोऽसि ! क्वागच्छसि इत्यादि भाषणेनाऽपि किं ? अपि तु न किमपि । एतावता भिक्षार्थं निर्गच्छतां मुनीनां समताभाव एव श्लाघ्यः । हे साधो ! तापसवृत्तितस्तपोधनाचरितमार्गत्वाद् हैतौ पञ्चमी” कदशनादन्तप्रान्ताहारादहर्निशमहोरात्रं किं तप्यसे ? किमर्थं क्लामसीत्यर्थः । उक्तं च पंताणि चेव सेविज्जा सीयं पिंडं पुराणकम्मासं। अदुबक्कसं पुलागं वा जवणठाए निसेवए मंथु ।। इत्युक्त्वा [उत्तराध्ययन-२१९] अमुमेवार्थं समर्थयति-किलेति संभावनायां श्रेयोऽर्थं मोक्षार्थं मुनिवरैर्यतिपुङ्गवैः क्षुधाद्युद्भवा जिघत्सातृड्शीतादिभ्यो जाता बाघापीडा सह्यते सम्यङ्मयॆत इति काव्यार्थः ।। १२॥ ॥ गाथा-१३ ॥ एकाकी विहरत्यनवस्थितबलीवर्दो यथा स्वेच्छया। योषामध्यरतस्तथाऽपि त्वमपि भो ! त्यक्त्वा स्वयूथं यते॥ तस्मिंश्चेदभिलाषता न भवतः किं भ्राम्यसि प्रत्यहं। मध्ये साधुजनस्य तिष्ठसि न किं कृत्वा सदाचारतां ॥ १३ ॥ व्याख्या- भो यते ! हे यतेन्द्रिय ! यथेति दृष्टान्तोपन्यासे, स्वेच्छया यदृच्छया अनवस्थितबलीवर्दः अनस्थितसक्करोऽर्थादिडवर एकाकी विहरति द्वितीयषण्डमसहमानो विचरति रमते गवां मध्ये इति गम्यते । तथेति दार्टीतोपन्यासे त्वमपि भवानपि स्वयूथं त्यक्त्वा मुनिसमूहं हित्वा योषामध्यरतो माननीमध्यप्रसक्तस्सन् विहरसीति संबंधः । 28
SR No.523351
Book TitleAho shrutam E Paripatra 02 Samvat 2071 Meruteras 2015
Original Sutra AuthorN/A
AuthorBabulal S Shah
PublisherAshapuran Parshwanath Jain Gyanbhandar Ahmedabad
Publication Year2015
Total Pages132
LanguageHindi, Sanskrit
ClassificationMagazine, India_Aho Shrutgyanam, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy