________________
॥ गाथा-११॥ सौख्यं वाञ्छसि किं त्वया गतभवे दानं तपो वा कृतं । नो चेत्त्वं किमिहैवमेव लभसे ? लब्धं तदत्रागतम् ॥ धान्यं किं लभते विनाऽपि वपनं लोके कुटुम्बी जनो।
देहे कीटकभक्षितेक्षुसदृशे मोहं वृथा मा कृथाः॥ ११ ॥ व्याख्या- हे मुने ! सौख्यं वाञ्छसि अत्र भवे सात्यमीहसे त्वमिति संबंधः । त्वया गतभवे किं दान कृतं ? भवता प्राग्जन्मनि अभीतिदानं सत्पात्रपोषणं विहितं ? वा अथवा पूर्वभवे तपः सर्वजीवाऽविरोधिस्वेन्द्रियनिरोधरूपं च त्वया कृतं ? त्वमत्र जगति मनोभीष्टं समीहस इति भाव । एवं निश्चयेन प्रतीयतां यदि प्राग्भवे सम्यग्दानं तपो वा कृतं भविष्यत्तर्हि समीचिनसुखमनुद्यमेनाऽपि अलप्स्य[त] । नो नैव इहैवत्युक्तेऽत्र भवे कृतमत्रैव त्वं लभसे लब्धमीहसे, एतावताऽत्रैवोपार्जितं पुण्यमत्र नो लभ्यते । अन्यत्राऽप्युक्तं शुभाशुभाः प्रकृतयः काश्चिदत्रैवोदयमायान्ति, बाहुल्येन बढ्य प्रकृतयोऽग्रेतनभवेष्वेव किंचित्तु प्राप्नोष्येव किमित्याह भो ! प्राग्भवे किञ्चित्सुकृतं त्वया कृतं ज्ञायते इति योगः । तत्तस्माद् हेतोर्भवता लब्धं प्राप्तं नृभवमिति गम्यते । अत्रेत्युक्ते आर्यकुले भवतागतमिति भावः। त्वं सर्वथा सौख्यं पृच्छसि तत्र लौकिकं दृष्टान्त श्रृणु-कुटुम्बिजनः कृषीवललोक वपनमित्युक्ते बीजवपनं भीमो भीमसेनवत्, अर्थाद्वीजोप्तं विनाऽपि लोके लोकविषये किमिति प्रश्ने धान्यं स्तंबकरिं लभते ? प्राप्नोति ? अपि तु नैव । इत्यनन्तरोक्तं ज्ञात्वा देहे शरीरे वृथा मुघा मोहं रागं त्वं मा कृथा मा कुर्वित्यर्थः । कथम्भूते ? देहे कीटकेन क्षुद्रेण भक्षितमर्थाच्छुषिरीकृतमिक्षुखण्डमसिपत्रमूलं तत्कीटकभक्षितेक्षु तेन सदृशे तुल्ये देहे मा मुह्यतामिति काव्यार्थः ।। ११ ।।
॥ गाथा-१२॥ यत्काले लघुभाण्डमण्डितकरो भूत्वा परेषां गृहे। भिक्षार्थं भ्रमसे तदा हि भवतो मानापमानेन किं । भिक्षो! तापसवृत्तितः कदशनात्किं तप्यसेऽहर्निशं । श्रेयोऽर्थं किल सह्यते मुनिवरैर्बाधा क्षुधायुद्भवा ॥ १२॥
27