________________
व्याख्या- हे मुने ! इदं वपुर्देहं यत् यत् वाञ्छति, अर्थाद् वपुर्गतमिन्द्रियसमूह, धार्यधारकाभावादैक्यं, यद्यदभिलषति तत्तदेव वपुषो शरीराय त्वया भवता सु अतिशयेन पुष्टं पुष्टिभावं दत्तं । हे जडमते ! हे मन्दबुद्धे ! तथाऽपि स्वकरपोषितमपि देहं त्वया सार्द्धं भवता सह नैति न याति तर्हि मित्रादयः मित्रकलत्रमातृपितृभातृभर्तृप्रमुखास्त्वया सार्थं किं याति ? अपि तु नैव । पुण्यं सुकृतं पापं दुष्कृतं इति द्वयं भवतस्तव पुष्ठेन पुष्ठिभागेन केटके “सहार्थे तृतीया", यातीह ते यातुमिच्छति शुभाशुभयुगं कर्तुरनुगच्छति निश्चयादितिभावः । तस्मात्कारणाच्छरीरादिषु निजकलत्रादिषु मोहः मुह्यते विकलीभूयतेऽनेनेति मोहस्तं मनागपि स्तोकमपि भवांस्तं मा स्म कृथा भवान्मा कार्कीरिति सूत्रे नाम्नि योगे क्रिया प्रथमपुरुषैकवाक्यमानीतं भवान्मा स्म कृथा इति चिन्त्यमिति काव्यार्थः ।। ९ ।।
॥ गाथा-१०॥ अष्टाविंशतिभेदमात्मनि पुरा रोप्य साधो व्रतं । साक्षीकृत्य जिनान्गुरूनपि कियत्कालं त्वया पालितं । भक्तुं वाञ्छसि शीतवातविहतो भूत्वाऽधुना तव्रतं ।
दारिद्रोपहतः स्ववान्तमशनं भुङ्क्ते क्षुधार्तोऽपि किं ॥ १० ॥ व्याख्या- हे साधो ! पुरा पूर्व अष्टाविंशतिभेदव्रतं पंचयम-पंचेन्द्रियवश्यचतुःक्रोधादिनिग्रह-त्रिसत्यभावयोगकरण-क्षांति-वैराग्य-मनोवाक्कायनिरोध-शीत मारणान्तिकोपसर्गसहन-ज्ञानादित्रिकरूपास्साधो गुणाः । स्थविरकल्पिकानां मते, (जिनकल्पिकानां मते) जिन(स्थविर)कल्पिकानां मते तु नान्योऽष्टाविंशतितमो गुणः । तदात्मकं वियते-स्वात्मना प्राणत्यागेऽपि न दीयते न संखंड्यते इति व्रतं, आत्मनि स्वविषये संरोप्यार्थादुररीकृत्य अपीति निश्चित्य जिनान् गुरुन् प्रति साक्षीकृत्य व्रतग्रहणकाले “अरिहंतसक्खियं गुरुसक्खियम्” इति वचनात्, कियत्कालं कतिचिदब्दानि त्वया पालितमवित[थ]मित्यर्थः । तत्पूवोक्तव्रतं शीतवातविहतस्सन् सुसीमसमीरपीडितस्त्वमिदृशो भुत्वाऽधुनेदानीं भक्तुं वाञ्छसि शकलीकर्तुमीहसे ? । अत्रोदाहरणं, दरिद्रोपहतः दोर्गत्येन बाधितोऽपि च क्षुधार्तोऽशनार्थितोऽपि सन् स्ववान्तमशनं निजमुखाच्छर्दितं भोजनं किं भुङ्क्ते ? किमश्नाति ? अपि तु न कोऽपीति काव्यार्थः ।। १० ॥
26