________________
नेनावृत्तं आच्छादितं । किं भूतं चर्मावृत्तं ? माक्षिकपत्रसंनिभं भंभरालीगगरूत् सदृशमिति भावः । इदृशमङ्गं अहो इत्याश्चर्ये येद्यदि चर्मावृत्तं वपुर्नो भवेत्तदा काका बलिभुजो वायसा, बका कध्वा आदिशब्दात्-राक्ष्याय्योक्रोश-शृङ्गालप्रमुखै भक्ष्यं भक्षणार्ह ध्रुवमिति निश्चयेन जायते भवेदिति काव्यार्थः ।। ७ ।।
॥ गाथा-८॥ स्त्रीणां भावविलासविभ्रमगति, दृष्ट्वानुरागं मनाक् । मागास्त्वं विषवृक्षपक्वफलवत्सुस्वादवन्त्यस्तदा। ईषत्सेवनमात्रतोऽपि मरणं पुंसां प्रयच्छन्ति भो।
तस्मादृष्टिविषाहिवत्परिहर त्वं दूरतो मृत्यवे॥८॥ व्याख्या- भो मुने ! स्त्रीणां युवतीनां भावविलासविभ्रमगतिं दृष्ट्वा मनागपि अनुरागं मा गा इत्यन्वयः । तत्र भावाश्चितोद्भवा वा शरीरस्य सूक्ष्मचेष्टाः, विलासा नेत्रकृतनानारूपाश्चेष्टाः, विभ्रमा मुखाद्यरोष्टाङ्गुलिचेष्टाः, हावा भूतारकादीनां बहवो विकाराः, हेला अंगस्यानल्पा विकाराः, हाव-हेला अनुक्ता अपि ग्राह्या । तेषां गतिश्चालना तां दृष्ट्वा वीक्ष्य, अनुरागं प्रीतिभावः, मनागपि नोऽशंमात्रमपि त्वं मा गा मा गच्छार्थात्तानावादीन् (त्न्भावादीन्) प्रति मा पश्येत्यर्थः । द्विकर्मकोऽयं धातु-“र्गम्ल गतौ” अतोऽनुरागं प्रति च मा गा इति । तदा भावादिकरणावसरे सुंदर्यः सुस्वादवंत्योऽतिमधुरस्निग्धवंत्यो लगंतीति शेषः । अत्र कानीव ? विषवृक्षपक्वफलवत् किम्पाकतरुपक्वफलानीव तावत्सुन्दराकाररसज्येष्टस्वादुवंतिस्युः । ततो परं इषत्सेवनमात्रतोऽपि सकृदास्वादनतोऽपि पुंसां पुरूषाणां मरणं निदानं प्रयच्छति ददाति, तथा सुन्दर्योऽपि सुन्दरीदेहगतभावा अपि नराणां मरणं ददते सेव्यमाना इति भावः । परं किंपाकफलानि तद्भवीयमे (म)रणं ददाति, स्त्रीगतभावास्सकृत्सेविता अपि बहुशो मरणानि समर्पयंति, तस्माद्हेतोदृष्टिविषाहिवत् नेत्रविषसर्प इव स्त्रीजनं त्वं मृत्यवे-मरणाय, दूरतो परिहर त्यजेति काव्यार्थः ।। ८ ।।
॥ गाथा-९॥ यद्यद्वाञ्छति तत्तदेव वपुषे दत्तं सुपुष्टं त्वया। सार्थं नैति तथाऽपि ते जडमते मित्रादयो याति किं ॥ पुण्यं पापमितिद्वयं च भवत पुष्टेन यातीह ते। तस्मात्मा स्म कृथा मनागपि भवान् मोहं शरीरादिषु ॥९॥
25