SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ व्याख्या- हे साधो ! हे वाचंयम ! भवतस्तवाद्यापि सत्संयमादत्तेऽपि अबलाजनस्य ललनालोकस्य गोष्ठी गोदृष्टिर्वा भारती तस्या रसेन स्थीयते इति गोष्ठी सा कथं रोचते भवतो-मनसि कथं सुखायत इत्यर्थः । स्त्रियोऽभिधानमबलेति कविरूढितः परम् अतो न कापि सबला यदुच्यते-“अहनि गृहगतेयं भामिनी भीतिमेति, परपुरुषरतैषा याति पैशाचभूमौ कथमियमबलाख्या कथ्यते पण्डितेन ?, नहि सबलतरोऽस्या दृश्यते कोऽपि शूरः ।” अतोऽबलाभिः सह गोष्ठी न कर्तव्येति । कथमित्याह ते तव वदनमास्यं दुर्गन्धं पूतिगन्धं अस्तीति शेषः, कुतो दन्तकाष्टादिकरणाभावात् । पुनस्तव वपुर्देहं मलभृतं मलीमसान्वितं, कुतः ? स्नानादिविधानाभावात् । पुनस्तव भोजनं प्रत्यवसानं भिक्षाटनात् भिक्षाभ्रमणतः । पुनस्तव शय्या शयनं स्थण्डिलभूमिषु विषमोच्चावचपैतृवनाद्यवनिषु । पुनस्तव प्रतिदिनं निरन्तरं कट्यां कटिविषये कर्पटं परिधानांशुकं नास्ति, परिधानवस्त्रं तु प्रत्यक्षत्वेन दृश्यते, नास्तीति किमुक्तं ? उच्यतेःमूर्छारागाद्यभावादिति । पुनस्तव मुण्डं मस्तकं मुण्डितं कचाभावीकृतं, मुण्डितमित्यविवक्षितपदं साधूनां कचलुञ्चनकल्प एव जिनैरूक्तः-वा मुंडे भवित्तागाराउ अणगारियमित्युक्तमेव । अथ चेदृशदेहभृत्सन् त्वमन्यैर्जनैः सर्वालंकारलंकृतैलोकैः कीदृशो दृश्यसे ? अर्धदग्धशबवत् अर्धप्लोषितमृतक इवेतिभावः । अतो हे मुने ! महिलांभिः कामगोष्ठी न विधेयेति काव्यार्थः ।। ६ ।। ॥गाथा-७॥ अङ्गं शोणितशुक्रसंभवमिदं मेदोऽस्थिमज्जाकुलं । बाह्ये माक्षिकऽपत्रसन्निभमहो चर्मावृत्तं सर्वतः॥ नो चेत्काकबकादिभिर्वपुरहो जायते भक्ष्यं ध्रुवं । दृष्ट्वाद्यापि शरीर-सद्मनि कथं निर्वेदता नास्ति ते ॥७॥ व्याख्या- हे साधो ! शरीरसद्मनि विग्रहे ते तव निर्वेदता कथं नास्ति भवत उद्वेगता कथं नास्ति । अद्यापि प्रोच्यमानदेहनिसर्गे ज्ञातेऽपि, किमित्याहः-अङ्गमिन्द्रियायतनमिदृशं दृष्ट्वा वीक्ष्येति सर्वत्रानुमीयते । किशमिति शोणितशुक्रसंभवं रूधिररेतोभाजनमङ्गमित्यनुवर्तते । पुनर्मेदोऽस्थिमज्जाकुलं वसाकीककौशिक चतुर्थपंचमषष्ठधातुव्याप्तं रसमांसावनुक्तावपि ग्राह्याविति सप्तधातुमयमंगमिदं । पुनः कीदृशं ? बाह्ये तेषां धातुनामुपरितनभागे, सर्वतः समन्तात्, चर्मावृत्तं चर्मणाऽजि 24
SR No.523351
Book TitleAho shrutam E Paripatra 02 Samvat 2071 Meruteras 2015
Original Sutra AuthorN/A
AuthorBabulal S Shah
PublisherAshapuran Parshwanath Jain Gyanbhandar Ahmedabad
Publication Year2015
Total Pages132
LanguageHindi, Sanskrit
ClassificationMagazine, India_Aho Shrutgyanam, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy