Book Title: Aho shrutam E Paripatra 02 Samvat 2071 Meruteras 2015
Author(s): Babulal S Shah
Publisher: Ashapuran Parshwanath Jain Gyanbhandar Ahmedabad

View full book text
Previous | Next

Page 35
________________ निर्ममता ममत्वाभावोऽर्थात्तपक्रियाकायोत्सर्गादि कुर्वन्न जानातीत्थं कृशतां प्राप्नोति मे शरीरं । स्वदेहालुब्धके किं भवति ? गुरौ गृणाति मोक्षमार्गमिति गुरुस्तत्र विनयता प्रश्नयताऽऽभ्यन्तरीयस्नेहतेति भावः । तत्क्रियमाणे किमिति ? नित्यं सततं श्रुताभ्यासता सर्वसिद्धांतांगोपांगादिपरिचयता स्यात् । तदभ्यासे किमिति ? चारित्रोज्ज्वलिता चारित्रं-सामायिकछेदोपस्थापनीयपरिहारविशुद्धिसूक्ष्मसंपराययथाख्यातरूपं तत्रोज्ज्वलिता निर्मलता शबलाद्याभावता । तत्सत्वे किमिति ? महोपशमता केनापि म्लेच्छेन कर्कशभाषाक्रोशतर्जनावधादिकृतेऽपि न क्रुध्यतीति भावः । तत्सति किमिति ? संसरणं संसारस्तस्मानिर्वैगताऽर्थाद्भयभीतिता । अन्तर्परिग्रहश्चतुर्दशधा मिथ्यात्ववेद-राग-द्वेषहास्य-रत्यरति-भय-शोक-जुगुप्सा-क्रोध-मान-माया-लोभरूपाः । बाह्यपरिग्रहः क्षेत्रवास्तुनवधान्य-द्विपद-चतुष्पद-कुपिकरूपास्तयोस्त्यजनता व्युत्सर्गता-ऽल्पोपधितेति यावत् । तत्सत्यां किमिति ? धर्मं क्षान्त्यादिब्रह्मचर्यपर्यन्तरूपं जानातीति धर्मज्ञः, तस्य भावः धर्मज्ञता । तज्ज्ञाते किं ? साधयति ज्ञान-दर्शन-चारित्राणीति साधुस्तस्य भावः साधुता । इत्यादीनि पुनरनेकान्यौदार्य-गांभीर्य वैराग्य-प्रमुखाण्यनुक्तान्यपि साधुलक्षणानीति काव्यार्थः ।। १९ ।। ॥गाथा-२०॥ लब्ध्वा मानुषजातिमुत्तमकुलं रूपं च नीरोगतां। बुद्धिं घीघनसेवनं सुचरणं श्रीमजिनेन्द्रोदितं ।। लाभार्थं वसुपूर्णहेतुभिरलं स्तोकाय सौख्याय भो। देहिन् । देहसुपोतकं गुणभृतं भक्तुं किमिच्छाऽस्ति ते ॥२०॥ व्याख्या- हे देहिन् ! हे प्राणिन् ! मानुषजातिं सर्वजातिषु कूटरूपां देवैरपीप्सितुत्प्रेक्ष्यते केवलज्ञानभूमिं लब्ध्वा समासाद्य । मनुष्यजातिस्तु बहवनार्यैरपि लब्धा तत्रोत्कृष्टं किमिति ? उत्तमकुलं सर्वज्ञप्रणीताचरितधर्मवंशं, तत्रापि अङ्गोपाङ्गदिविकला धर्मकरणेऽसमर्था भवन्त्येके, ततः सर्वजनस्पृहणीयतरं रूपं । रूपवन्तोऽप्येके रुजार्दितमनसो धर्मे शक्यौ (शक्ये) सीद्याः स्युः, ततो नीरोगतां सर्वामयवर्जितदेह । नीरोगिणोप्येके धर्माधर्मविवेचनविकलाः ततो बुद्धिं बुध्यते जीवादीनि यया सा बुद्धिस्तां । बुद्धिं कुतो भवेत् ?, ततः धीधनसेवनं धीरेवघनं येषां ते ज्ञानविभवाः पण्डितास्तेषां सेवनं पर्युपासनमर्थात्समीपवर्त्तनमिति भावः । तेषां सेवाफलमाह 33

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132