Book Title: Aho shrutam E Paripatra 02 Samvat 2071 Meruteras 2015
Author(s): Babulal S Shah
Publisher: Ashapuran Parshwanath Jain Gyanbhandar Ahmedabad
View full book text ________________
व्याख्या- हे भिक्षो ! दीक्षाग्रहणकालतो भिक्षयोपजीवतीति भिक्षुस्तस्य संबोधने हे भिक्षो ! यत्काले क्षुत्परीषहव्यथिततनु भिक्षोत्थानसमये परेषामनुपलक्षितानां गृहे धाम्नि लघुभाण्डमण्डितकरो भृत्वा धातुमयवर्जितत्वादलाबुदारूमृन्मयपात्रभूषितहस्तः संभूय भिक्षार्थं भ्रमसे शुढेषणद्विचत्वारिंशद्दोषरहिताहारनिमित्तमटसि । तदाऽपि तस्मिन्कालेऽपि भवतस्तव मानापमानेन किं सत्पूजनादरेण किं ? तावता कस्यचिच्छ्रद्धालो गृहे गते सति सद्भाषणोत्थानादिकं कृतं तेन तदा सत्कारपरीषहः सोढव्यः, वा कस्यचिदनार्यगृहे गते सति केनोच्यते रे मुण्ड ! रे शुद्र ! रे शावकोऽसि ! क्वागच्छसि इत्यादि भाषणेनाऽपि किं ? अपि तु न किमपि । एतावता भिक्षार्थं निर्गच्छतां मुनीनां समताभाव एव श्लाघ्यः । हे साधो ! तापसवृत्तितस्तपोधनाचरितमार्गत्वाद् हैतौ पञ्चमी” कदशनादन्तप्रान्ताहारादहर्निशमहोरात्रं किं तप्यसे ? किमर्थं क्लामसीत्यर्थः । उक्तं च
पंताणि चेव सेविज्जा सीयं पिंडं पुराणकम्मासं। अदुबक्कसं पुलागं वा जवणठाए निसेवए मंथु ।। इत्युक्त्वा
[उत्तराध्ययन-२१९] अमुमेवार्थं समर्थयति-किलेति संभावनायां श्रेयोऽर्थं मोक्षार्थं मुनिवरैर्यतिपुङ्गवैः क्षुधाद्युद्भवा जिघत्सातृड्शीतादिभ्यो जाता बाघापीडा सह्यते सम्यङ्मयॆत इति काव्यार्थः ।। १२॥
॥ गाथा-१३ ॥ एकाकी विहरत्यनवस्थितबलीवर्दो यथा स्वेच्छया। योषामध्यरतस्तथाऽपि त्वमपि भो ! त्यक्त्वा स्वयूथं यते॥ तस्मिंश्चेदभिलाषता न भवतः किं भ्राम्यसि प्रत्यहं।
मध्ये साधुजनस्य तिष्ठसि न किं कृत्वा सदाचारतां ॥ १३ ॥ व्याख्या- भो यते ! हे यतेन्द्रिय ! यथेति दृष्टान्तोपन्यासे, स्वेच्छया यदृच्छया अनवस्थितबलीवर्दः अनस्थितसक्करोऽर्थादिडवर एकाकी विहरति द्वितीयषण्डमसहमानो विचरति रमते गवां मध्ये इति गम्यते । तथेति दार्टीतोपन्यासे त्वमपि भवानपि स्वयूथं त्यक्त्वा मुनिसमूहं हित्वा योषामध्यरतो माननीमध्यप्रसक्तस्सन् विहरसीति संबंधः ।
28
Loading... Page Navigation 1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132