SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ यथैवाभ्युदितः सूर्यः, पिदधाति महान्तरम्। चारित्रपरमज्योति-ोतितात्मा तथा मुनिः॥१६॥ सम्पूर्णतयोदयं प्राप्त आदित्यः स्वप्रकाशेन द्यावापृथिवीविवरं सम्पूरयतीति प्रतीतम् । यथा च तत् सुमहदन्तरम्, तथेदमपि, यच् चारित्रलक्षणपरमज्योतिःप्रकाशितनिजान्तरात्मा महात्मा पिदधाति, तच्चान्तरमात्मपरमात्ममध्यगतमवगन्तव्यम्, समापयति हि तदन्तरं चारित्री, दोषचयरिक्तीकरणस्यैव चारित्रपदार्थत्वात्, तद्विरेके च स्वतः परमात्मभावप्रादुर्भावयोगात्, तथा च कुतस्ततोऽन्तरम् ? न हि व्यतिरिक्तभावाभावे भवत्यन्तरम्, व्यतिरेकस्यैव तद्बीजवादित्यालोचनीयं पटुप्रतिभया। ननु सुलूदितं परमज्योतिर्माहात्म्यम्, साम्प्रतं तु कथं तदाविर्भावस्स्यादित्येव तावदुच्यतामिति चेत् ? अत्रोच्यते प्रच्छन्नं परमं ज्योति-रात्मनोऽज्ञानभस्मना। क्षणादाविर्भवत्युग्र-ध्यानवातप्रचारतः॥ १७ ॥ प्रबलतरो हि सध्यानात्मकः समीरणोऽपसारयति सकलमप्यज्ञानभस्मात्मकं परमज्योतिरावरणम्, अपसृते च तस्मिन् नियोगतः प्रादुर्भवति तत्, परमार्थतस्तदपसरणतदाविर्भावयोरनर्थान्तरत्वात्। ध्यानयोगो हि जिनशासनस्य सारस्वरूपः, कर्मक्षयप्रबलनिबन्धनत्वादनन्तरमुक्तिहेतुत्वाच्च, अतो हि निबिडस्याप्यज्ञानस्य विलयः, दुर्वाररागादिदोषनिकुरम्बनिकारः, कैवल्याधिगमः, जीवन्मुक्त्यनुभूत्यवाप्त्या परममुक्तिपरिणतिश्चेति यतितव्यमत्र प्रयत्नतः। यथा च विशुद्धध्यानपरिणतिरधिगम्या स्यात्, तत्प्रकारमपि प्रत्याहुः परेषां गुणदोषेषु, दृष्टिस्ते विषदायिनी। स्वगुणानुभवालोक-दृष्टिः पीयूषवर्षिणी ॥ १९ ॥ ननु गुणगोचरा तु दृष्टिरमृतप्रदत्वेनैव प्रसिद्धा, तत् कथं सा विषप्रदा भवितुमर्हतीति चेत्? परगोचरत्वेनेति गृहाण । न च गतमेवं गुणानुरागमाहात्म्येनेति वाच्यम्, विशेषविषयत्वात्, परमज्योतरुपायभूतध्यानलक्षणसाध्यमाश्रित्य तस्या अनुपायतया 12
SR No.523351
Book TitleAho shrutam E Paripatra 02 Samvat 2071 Meruteras 2015
Original Sutra AuthorN/A
AuthorBabulal S Shah
PublisherAshapuran Parshwanath Jain Gyanbhandar Ahmedabad
Publication Year2015
Total Pages132
LanguageHindi, Sanskrit
ClassificationMagazine, India_Aho Shrutgyanam, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy