________________
बारसमासपरियाए अणुत्तरोववातियाणं देवाणं तेउलेसं वीतीवयति-इति (व्याख्याप्रज्ञप्तिसूत्रे)। अखण्डचारित्रादिगुणकलितो हि जीवः शुक्ल इत्युच्यते । शुक्लेषु च यः प्रकृष्टः, स परमशुक्लः । अन्यथा वा शुक्लादिपरिभाषा-शुक्लः कर्मणा, परमशुक्लस्त्वाशयेनेति । दृश्यते चायं क्रमोऽन्यत्रापि सिद्धतामाश्रित्य, यथा-ब्रह्मचारी मिताहारी, योगी योगपरायणः । अब्दादूर्ध्वं भवेत् सिद्धो, नात्र कार्या विचारणा-इति (ध्यानबिन्दूपनिषदि)। तदिदं जीवनसाफल्यम्, अतो न युक्त इह विदुषः प्रमाद इत्यत्राशयः। ततोऽपि परमज्योतिषो यत्र पर्यवसानं भवति, तत् प्रतिपादयन्ति
विस्तारिपरमज्योति?तिताभ्यन्तराशयाः।
जीवन्मुक्ता महात्मानो, जायन्ते विगतस्पृहाः ॥ १४ ॥ न हि तथाविधपरमज्योतिःप्रकाशितान्तःकरणतया सन्नष्टाविद्यान्धकारत्वेन जीवन्मुक्त्यनुभूत्यनुभूयमानाऽऽनन्दाद्वैतानां महात्मनां कुत्राऽप्यन्यत्र स्पृहा सङ्गतिमङ्गतीति तदभावे तेषां निःस्पृहत्वमेवावशिष्यते । सेयमात्मपरितृप्त्यादिपदप्रतिपाद्या परमनिःस्पृहपदवी यामवाप्य राजादयोऽपि तृणतुल्याः प्रेक्ष्यन्ते तपोधनैः । तथा चावोचाम-को राजा ? को महाराजा ?, कः सुरः कः सुरेश्वरः ? । आत्मैकपरितृप्तस्य, यदेह गलिता स्पृहा-इति (निःस्पृहोपनिषदि)। न च जीवन्मुक्त्यभिधान आर्हतानामपसिद्धान्तप्रसक्तिरिति वाच्यम्, तथातत्सिद्धान्तसद्भावात्, मदादिनिर्जयानुभावात् तदुद्भवाभ्युपगमात्, तदुक्तम्-निर्जितमदमदनानां, वाक्कायमनोविकाररहितानाम् । विनिवृत्तपराशाना-मिहैव मोक्षः सुविहितानाम्-इति (प्रशमरतौ)। एवमधिगतजीवन्मुक्तीनां तेषां या दशा भवति, तामाहुः
जाग्रत्यान्मनि ते नित्यं, बहिर्भावेषु शेरते।
उदासते परद्रव्ये, लीयन्ते स्वगुणामृते ॥ १५ ॥ न ह्यन्तरनुभूयमानपरमसौख्यसागराणां क्षणमप्यत उन्मज्जनं घटाकोटिमाटीकते, अतस्तेषामुक्तदशोपपद्यत एव, मन्दानामपि सुखोपेक्षया दुःखोरीकारादर्शनादित्यालोचनीयम्, उक्तञ्च-अन्तर्निमग्नः समतासुखाब्धौ, बाह्ये सुखे नो रतिमेति योगी । अटत्यटव्यां क इहार्थ-लुब्धो, गृहे समुत्सर्पति कल्पवृक्षे-इति (अध्यात्मोपनिषदि)। प्रकारान्तरेण परमज्योतिःपरिणामं प्राहुः
11