________________
धाम-तेजः, आत्मतेजोरूपां परमज्योतिःकलामन्तरेण सङ्गीतादिसर्वकला विफला, आत्मप्रयोजनं प्रतीत्यानुपयोगित्वात् । एतेन कथं नाम लोके गुणबलाधिकतयाऽभिमता अपि तास्ता कला विफलाः स्युः ? तत्तद्यशोविभवादितत्फलानामध्यक्षमीक्ष्यमाणत्वादिति प्रतिविहितम, ऐहिकाभिमानिकमात्रफलत्वेन तासां कलानामात्मकल्याणाऽऽपादनमाश्रित्यात्यन्तमफलत्वात् । अतो नैतत्कलोपेक्षयेतरकलासमुपासनं न्याय्यं न्यायविदामित्याशयः। सर्वातिशयकलाभावमेव परमज्योतिष स्वानुभवेन समर्थयन्ति
निधिभिनवभी रत्नै-श्चतुर्दशभिरप्यहो!।
न तेजश्चक्रिणां यत् स्यात्, तदात्माधीनमेव नः॥ ११ ॥ भवति ह्यात्मसन्तृप्ततया निःस्पृहत्वैश्वर्यसम्पन्नानां महात्मनां परमानन्दपरिकरितं तत्तेजः, यत् सुदुर्लभं चक्रिणामपि, अनूदितं च-भूशय्या भैक्षमशनं, जीर्णवासो वनं गृहम्। तथापि निःस्पृहस्याहो, चक्रिणोऽप्यधिकं सुखम्-इति (ज्ञानसारे)। इतरं खलु तदिन्द्रियविषयावाप्त्यवाप्यं सौख्यम्, इतरं तु परमज्योतिःप्रभवम्, पराधीनं ह्यनयोराद्यम्, स्वाधीनं तु द्वितीयम्, शाश्वतं निर्भयं श्रेष्ठं च तत्, अतोऽत्रैव यत्नः श्रेयानिति भावः। आस्तां चक्रिचक्रम्, वासवविसरादप्यधिकं तेजः प्राप्तपरमज्योतिषां महात्मनामित्याहुः
दम्भपर्वतदम्भोलि-ज्ञानध्यानधनाः सदा।
मुनयो वासवेभ्योऽपि, विशिष्टं धाम बिभ्रति ॥ १२ ॥ किलेन्द्रसत्कं वज्रं कुलाचलानपि भेत्तीति श्रुतिः, किन्तु दम्भाद्यान्तरपर्वतविभेदे तदप्यप्रत्यलम्, तदविषयत्वात्तेषाम् । तस्माद् ज्ञानादिसद्गुणलक्षणदम्भोलिशालिनो मुनय एव तद्विभेदे प्रत्यलाः, शक्राधिकतेजःसम्पन्नाश्चेति प्रत्येतव्यम्, साक्षी चात्र सिद्धान्तः-णाणाइलाभओ च्चिय दोसा हायंति-इति (पञ्चवस्तुके) । किञ्चान्यत्,
श्रामण्ये वर्षपर्यायात्, प्राप्ते परमशुक्लताम्।
सर्वार्थसिद्धदेवेभ्यो-ऽप्यधिकं ज्योतिरुल्लसेत् ॥ १३ ॥ सर्वोत्कृष्टो हि सुरलोकः सर्वार्थसिद्धः, यथा यथा श्रामण्याभ्यासो भवेत्, तथा तथा क्रमेण श्रमणस्य तेजः सर्वेषामपि देवानां तेजोऽतिक्रमेत् । एवञ्च वत्सरमात्रपर्यायस्य मुनेः सर्वार्थसिद्धसुरज्योतिरतिक्रमोऽवगन्तव्यः । प्रमाणं चात्र पारमर्षम्
10