________________
विवेकविगलनैकोत्थानत्वात् । अतो यतनीयं परमज्योतिषि विवेकार्थिभिः, एवमेव परमार्थतदर्थित्वसिद्धेरिति। अथ पारम्यमेवास्य ज्योतिषः प्रमाणयन्ति
तस्मै विश्वप्रकाशाय, परमज्योतिषे नमः।
केवलं नैव तमसः, प्रकाशादपि यत् परम् ॥ ८॥ अभिमतप्रकाशानामपि तत्तुलनायां तमःप्रायत्वादिति हृदयम् । भावनीयमत्रादित्यदृष्टान्तम्, यथोक्तम्-उदिते हि सहस्रांशौ न तेजांसि तमांसि च-इति (त्रिषष्टिशलाकापुरुषचरिते)। न च प्रकाशात्परत्वे ज्योतिर्भाव एव विरुध्येतेति वाच्यम्, प्रकाशनसामर्थ्यातिशय एव तात्पर्यभावात्, यथाहुः स्तुतिकाराः-कुलिशेन सहस्रलोचनः, सविता चांशुसहस्रलोचनः। न विदारयितुं यदीश्वरो, जगतस्तद् भवता हतं तमः-इति (सिद्धसेनीद्वात्रिंशिकायाम्) । भावनीयमत्र गीतोद्गीतं तन्माहात्म्यम्-ज्योतिषामपि यज्योतिः-इति (भगवद्गीतायाम्)। तस्मात्
ज्ञानदर्शनसम्यक्त्व-चारित्रसुखवीर्यभूः।
परमात्मप्रकाशो मे, सर्वोत्तमकलामयः ॥ ९॥ ज्ञानादिसद्गुणा एव परमज्योतिर्भूमिका, तदतिरिक्ततदाधाराभावात्, श्रेष्ठकलास्वरूपं चैतत् परमज्योतिः, सङ्गीतादिसर्वकलाऽतिशायित्वात् । ऐहिकतुच्छफलदा हि तास्ताः कलाः, इहामुत्र च परमानन्दामन्दफलदं तु परमज्योतिः । सोऽयं ज्ञानाद्युपार्जनानुगुणानुष्ठानव्यङ्ग्यो धर्मलक्षण आत्मपरिणाम, यत्तुलनायां तृणप्रायो विश्वविश्वकलाप्रकरः, अत एवाभिहितम्-सव्वा कला धम्मकला जिणाइ-इति (गौतमकुलके)। एवञ्च सर्वोत्तमकलामयेन परमात्मप्रकाशेन कृतार्थतामितरुस्य किं मेऽवशिष्टकलाभिः प्रयोजनमिति भावः। इतोऽपि परमज्योतिषः सर्वोत्तमकलारूपत्वसिद्धिरित्याहुः
यां विना निष्फलाः सर्वाः कला गुणबलाधिकाः। आत्मधामकलामेकां, तां वयं समुपास्महे ॥ १० ॥