SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ प्रकृतप्रयोजनविघ्नभूतत्वेन च तथाविधत्वानपायात्, उक्तञ्चान्यत्र-यस्य ज्ञानसुधाम्भोधौ परब्रह्मणि मग्नता । विषयान्तरसञ्चार-स्तस्य हालाहलोपमः-इति (ज्ञानसारे) । अधस्तनदशायां तु परगुणदृष्टिरुपादेयैवेति न तत्र विगानम् । न चोपादेयैवैषा कथं हेया भवतीति वाच्यम्, स्याद्वादात्तत्त्वसिद्धेः, भावनीयमत्र सोपानज्ञातम्, अधिरोहण उपायभूतमेव सोपानं तदधस्तनसोपानापेक्षयोपादेयं भवति, तदुच्चतरसोपानापेक्षया तु हेयम्, न हि तदेकप्रतिबद्धैः कल्पान्तेऽप्युञ्चतरसोपानं सम्प्राप्येतेत्यालोचनीयम् । नैतत् स्वमनीषिकयैवोच्यते, उपनिबन्धनमप्यस्यार्षम् - यावत् परगुणदोषकीर्त्तने, व्यापृतं मनो भवति । तावद् वरं विशुद्धे, ध्याने व्यग्रं मनः कर्त्तुम् इति (प्रशमरतौ) । परप्रवृत्तिरेव विशुद्धध्यानप्रतिबन्धकतामुपयाति, अतो निरुपमाद्भृतनिजगुणसुधादृष्टिरेवाssसेवनीया विशुद्ध ध्यानार्थिभिरित्यत्र निष्कर्षः । प्रोक्तमेवार्थं प्रकटतरं प्रतिपादयन्ति स्वरूपदर्शनं श्लाघ्यं, पररूपेक्षणं वृथा । एतावदेव विज्ञानं, परञ्ज्योतिःप्रकाशकम् ।। २०॥ न हि स्वहट्टनिभालनं विमुच्य परहट्टतप्तिं प्रकुर्वाणो वणिक् श्लाघ्यतां लभते, अन्यतरहट्टफलं वा, एवं प्रकृतेऽपि पर्यालोच्यम् । यदा तूक्तविज्ञानाद्योगी स्वरूपमात्रविश्रान्तविलोचनो भवति, तदा परमज्योतिःश्रीर्गुणक्रीतेव स्वयमेव तस्य स्वयंवरा भवति । न ह्युपाय उपेयव्यभिचारी, तद्भावाभावप्रसक्तेरित्यालोचनीयम् । उपायत्वमेवोक्तस्योपदर्शयन्ति स्तोकमप्यात्मनो ज्योतिः, पश्यतो दीपवद् हितम् । अन्धस्य दीपशतवत्, परज्योतिर्न बह्वपि ॥ २१॥ स एषः-स्तोकमप्यमृतं श्रेयो, भारोऽपि न विषस्य तु - इतिन्यायाऽऽपातः । आदृतव्यमतोऽमृतम्, विषादरस्य मृत्यादरानतिरिक्तत्वादित्यत्र तात्पर्यम् । प्रकारान्तरमेवामृताऽऽदरस्य प्रख्यापयन्ति समतामृतमग्नानां, समाधिधूतपाप्मनाम् । रत्नत्रयमयं शुद्धं, परं ज्योतिः प्रकाशते ।। २२॥ समता-समलेठुकंचणे-इत्यादिपारमर्षप्रतिपादित आनन्दाद्वयप्रयोजक आत्मपरिणामः. स एवामृतमिवामृतम्, अजरामरभावावन्ध्यनिबन्धनत्वात्, अन्वाहुः-एकां विवेकाङ्कु 13
SR No.523351
Book TitleAho shrutam E Paripatra 02 Samvat 2071 Meruteras 2015
Original Sutra AuthorN/A
AuthorBabulal S Shah
PublisherAshapuran Parshwanath Jain Gyanbhandar Ahmedabad
Publication Year2015
Total Pages132
LanguageHindi, Sanskrit
ClassificationMagazine, India_Aho Shrutgyanam, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy