SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ रितां श्रिता यां, निर्वाणमापुर्भरतादिभूपाः । सैवर्जुमार्गः समता मुनीना-मन्यस्तु तस्या निखिलः प्रपञ्चः-इति (अध्यात्मोपनिषदि)। समतामृते मग्नाः-समतामृतमग्नाः, तेषाम्, समाधिः-परममात्रामात्रप्रतिभासपर्यवसिताऽऽत्मपरिणतिः तया धूतपाप्मानःसमाधिधूतपाप्मानः, तेषाम्, रत्नत्रयमयम्-सज्ज्ञानदर्शनचारित्रस्वरूपम्, शुद्धम्विजातीयलेशेनाप्यकलङ्किततयोज्ज्वलम्, परम्-स्वत उत्कृष्टम्, ज्योतिः-सूर्यकोट्यतिशयिप्रकाशाद्वैतात्मक आत्मपरिणामः, प्रकाशते-सन्ततमपि स्वस्वभावमनुवर्तते, न हि प्रकाशनमृते ज्योतिःस्वभाव आत्मलाभमेव लभत इति भावनीयम्। ननु च मुक्तिदशायामेव परमज्योतिः प्रसिद्धम्, सा च दशा कृतकृत्यानां भवतीति कथं सा रत्नत्रयमयी भवितुमर्हतीति चेत् ? भावतस्तस्यास्तदात्मकत्वादिति गृहाण । यद्धि कृत्स्नकर्मक्षयलक्षणो मोक्ष इत्युच्यते तद् द्रव्यमोक्षमाश्रित्य, भावमोक्षस्तु सः, यो द्रव्यमोक्षहेतुः, स च तत्त्वतो रत्नत्रयरूप एव, तस्य रागादिप्रतिपक्षभूततया तत्फलप्रतिपक्षसवितृत्वोपपत्तेः, तथोदाहुः-द्रव्यमोक्षः क्षयः कर्मद्रव्याणां नात्मलक्षणम् । भावमोक्षस्तु तद्धेतु-रात्मा रत्नत्रयान्वयी । ज्ञानदर्शनचारित्रैरात्मैक्यं भजते यदा कर्माणि कुपितानीव, भवन्त्याशु तथा पृथक् ॥ अतो रत्नत्रयं मोक्षः-इति (अध्यात्मसारे), तथा-भवकारणरागादि-प्रतिपक्षमिदं खलु । तद्विपक्षस्य मोक्षस्य कारणं घटतेतराम्-इति (अध्यात्मसारे) अतः समतासमाधिसाचिव्येन रत्नत्रये यतितव्यम्, तस्यैव परमज्योतिःस्वरूपत्वादिति दिक्। परमज्योतिष्येवोपादेयबुद्ध्यतिशयमुत्पादयन्तः प्राहुः तीर्थङ्करा गणधरा, लब्धिसिद्धाश्च साधवः। सञ्जातास्त्रिजगद्वन्द्याः, परज्योतिःप्रकाशतः॥ २३ ॥ न ह्येतदभावे त्रैलोक्यनमस्करणीयतालक्षणपरमगुणप्रादुर्भावसम्भवः, सदुपाये व्यतिरेकव्यभिचारविरहादित्याकूतम् । यथा च तीर्थङ्करादिभिरवाप्तं तन् महः, यथा चापरेणाप्यवाप्तुं शक्यते, तत्प्रकारं प्रतिपादयन्ति न रागं नापि च द्वेष, विषरमेषु यदा व्रजेत्।। औदासीन्यनिमग्नात्मा, तदाऽऽप्नोति परं महः ॥ २४ ॥ सेयं प्रज्ञाप्रतिष्ठादिपदप्रतिपाद्या परमानन्दपदवी, यामवाप्य सर्वदुःखेभ्यो मुच्यन्ते महात्मानः, अभिहितञ्च-विषमेऽपि समेक्षी यः, स ज्ञानी स च पण्डितः, जीवन्मुक्तः 14
SR No.523351
Book TitleAho shrutam E Paripatra 02 Samvat 2071 Meruteras 2015
Original Sutra AuthorN/A
AuthorBabulal S Shah
PublisherAshapuran Parshwanath Jain Gyanbhandar Ahmedabad
Publication Year2015
Total Pages132
LanguageHindi, Sanskrit
ClassificationMagazine, India_Aho Shrutgyanam, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy