Book Title: Aho shrutam E Paripatra 02 Samvat 2071 Meruteras 2015
Author(s): Babulal S Shah
Publisher: Ashapuran Parshwanath Jain Gyanbhandar Ahmedabad

View full book text
Previous | Next

Page 12
________________ धाम-तेजः, आत्मतेजोरूपां परमज्योतिःकलामन्तरेण सङ्गीतादिसर्वकला विफला, आत्मप्रयोजनं प्रतीत्यानुपयोगित्वात् । एतेन कथं नाम लोके गुणबलाधिकतयाऽभिमता अपि तास्ता कला विफलाः स्युः ? तत्तद्यशोविभवादितत्फलानामध्यक्षमीक्ष्यमाणत्वादिति प्रतिविहितम, ऐहिकाभिमानिकमात्रफलत्वेन तासां कलानामात्मकल्याणाऽऽपादनमाश्रित्यात्यन्तमफलत्वात् । अतो नैतत्कलोपेक्षयेतरकलासमुपासनं न्याय्यं न्यायविदामित्याशयः। सर्वातिशयकलाभावमेव परमज्योतिष स्वानुभवेन समर्थयन्ति निधिभिनवभी रत्नै-श्चतुर्दशभिरप्यहो!। न तेजश्चक्रिणां यत् स्यात्, तदात्माधीनमेव नः॥ ११ ॥ भवति ह्यात्मसन्तृप्ततया निःस्पृहत्वैश्वर्यसम्पन्नानां महात्मनां परमानन्दपरिकरितं तत्तेजः, यत् सुदुर्लभं चक्रिणामपि, अनूदितं च-भूशय्या भैक्षमशनं, जीर्णवासो वनं गृहम्। तथापि निःस्पृहस्याहो, चक्रिणोऽप्यधिकं सुखम्-इति (ज्ञानसारे)। इतरं खलु तदिन्द्रियविषयावाप्त्यवाप्यं सौख्यम्, इतरं तु परमज्योतिःप्रभवम्, पराधीनं ह्यनयोराद्यम्, स्वाधीनं तु द्वितीयम्, शाश्वतं निर्भयं श्रेष्ठं च तत्, अतोऽत्रैव यत्नः श्रेयानिति भावः। आस्तां चक्रिचक्रम्, वासवविसरादप्यधिकं तेजः प्राप्तपरमज्योतिषां महात्मनामित्याहुः दम्भपर्वतदम्भोलि-ज्ञानध्यानधनाः सदा। मुनयो वासवेभ्योऽपि, विशिष्टं धाम बिभ्रति ॥ १२ ॥ किलेन्द्रसत्कं वज्रं कुलाचलानपि भेत्तीति श्रुतिः, किन्तु दम्भाद्यान्तरपर्वतविभेदे तदप्यप्रत्यलम्, तदविषयत्वात्तेषाम् । तस्माद् ज्ञानादिसद्गुणलक्षणदम्भोलिशालिनो मुनय एव तद्विभेदे प्रत्यलाः, शक्राधिकतेजःसम्पन्नाश्चेति प्रत्येतव्यम्, साक्षी चात्र सिद्धान्तः-णाणाइलाभओ च्चिय दोसा हायंति-इति (पञ्चवस्तुके) । किञ्चान्यत्, श्रामण्ये वर्षपर्यायात्, प्राप्ते परमशुक्लताम्। सर्वार्थसिद्धदेवेभ्यो-ऽप्यधिकं ज्योतिरुल्लसेत् ॥ १३ ॥ सर्वोत्कृष्टो हि सुरलोकः सर्वार्थसिद्धः, यथा यथा श्रामण्याभ्यासो भवेत्, तथा तथा क्रमेण श्रमणस्य तेजः सर्वेषामपि देवानां तेजोऽतिक्रमेत् । एवञ्च वत्सरमात्रपर्यायस्य मुनेः सर्वार्थसिद्धसुरज्योतिरतिक्रमोऽवगन्तव्यः । प्रमाणं चात्र पारमर्षम् 10

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 132