Book Title: Aho shrutam E Paripatra 02 Samvat 2071 Meruteras 2015
Author(s): Babulal S Shah
Publisher: Ashapuran Parshwanath Jain Gyanbhandar Ahmedabad

View full book text
Previous | Next

Page 11
________________ विवेकविगलनैकोत्थानत्वात् । अतो यतनीयं परमज्योतिषि विवेकार्थिभिः, एवमेव परमार्थतदर्थित्वसिद्धेरिति। अथ पारम्यमेवास्य ज्योतिषः प्रमाणयन्ति तस्मै विश्वप्रकाशाय, परमज्योतिषे नमः। केवलं नैव तमसः, प्रकाशादपि यत् परम् ॥ ८॥ अभिमतप्रकाशानामपि तत्तुलनायां तमःप्रायत्वादिति हृदयम् । भावनीयमत्रादित्यदृष्टान्तम्, यथोक्तम्-उदिते हि सहस्रांशौ न तेजांसि तमांसि च-इति (त्रिषष्टिशलाकापुरुषचरिते)। न च प्रकाशात्परत्वे ज्योतिर्भाव एव विरुध्येतेति वाच्यम्, प्रकाशनसामर्थ्यातिशय एव तात्पर्यभावात्, यथाहुः स्तुतिकाराः-कुलिशेन सहस्रलोचनः, सविता चांशुसहस्रलोचनः। न विदारयितुं यदीश्वरो, जगतस्तद् भवता हतं तमः-इति (सिद्धसेनीद्वात्रिंशिकायाम्) । भावनीयमत्र गीतोद्गीतं तन्माहात्म्यम्-ज्योतिषामपि यज्योतिः-इति (भगवद्गीतायाम्)। तस्मात् ज्ञानदर्शनसम्यक्त्व-चारित्रसुखवीर्यभूः। परमात्मप्रकाशो मे, सर्वोत्तमकलामयः ॥ ९॥ ज्ञानादिसद्गुणा एव परमज्योतिर्भूमिका, तदतिरिक्ततदाधाराभावात्, श्रेष्ठकलास्वरूपं चैतत् परमज्योतिः, सङ्गीतादिसर्वकलाऽतिशायित्वात् । ऐहिकतुच्छफलदा हि तास्ताः कलाः, इहामुत्र च परमानन्दामन्दफलदं तु परमज्योतिः । सोऽयं ज्ञानाद्युपार्जनानुगुणानुष्ठानव्यङ्ग्यो धर्मलक्षण आत्मपरिणाम, यत्तुलनायां तृणप्रायो विश्वविश्वकलाप्रकरः, अत एवाभिहितम्-सव्वा कला धम्मकला जिणाइ-इति (गौतमकुलके)। एवञ्च सर्वोत्तमकलामयेन परमात्मप्रकाशेन कृतार्थतामितरुस्य किं मेऽवशिष्टकलाभिः प्रयोजनमिति भावः। इतोऽपि परमज्योतिषः सर्वोत्तमकलारूपत्वसिद्धिरित्याहुः यां विना निष्फलाः सर्वाः कला गुणबलाधिकाः। आत्मधामकलामेकां, तां वयं समुपास्महे ॥ १० ॥

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 132