Book Title: Aho shrutam E Paripatra 02 Samvat 2071 Meruteras 2015
Author(s): Babulal S Shah
Publisher: Ashapuran Parshwanath Jain Gyanbhandar Ahmedabad

View full book text
Previous | Next

Page 10
________________ न हि पटादिनाऽऽवृतो घटो घटरूपतां जहाति, कटादिरूपतां च प्रतिपद्यते, स्वरूपबाधन आवरणस्यात्यन्तमसमर्थत्वात् । यथा च पटाद्यावृतोऽपि घटो धारयति जलम्, एवं कर्माद्याऽऽवृतस्याप्यात्मनो ज्योतिषा स्फुरणं बोध्यम् । अवदाम चान्यत्र एकमेव यथा रत्न-मावृतं वाऽप्यनावृतम्। एक एव तथाऽऽत्माऽपि, ह्यावृतो वाऽप्यनावृतः ।। -इति (आत्मोपनिषत्-श्लोकवार्तिके) सोऽयं सकलजीवात्मगोचरपरमात्मदर्शनसञ्चरः, यमवाप्येहैव परमसाम्यावलम्बनेन जीवन्मुक्तिसौख्यमनुभवन्ति तत्त्वविदः । न ह्यज्ञातपरमज्योतिःस्वरूपाणां सुलभो भवत्ययं सञ्चर इति यतितव्यं तद्विज्ञाने, परमानन्दप्राप्त्युपायान्तरविरहादिति भावः। परमज्योतिषोऽनुभावान्तरमप्याहुः परमज्योतिषः स्पर्शा-दपरं ज्योतिरेधते। यथा सूर्यकरस्पर्शात्, सूर्यकान्तस्थितोऽनलः ।। ६ ।। भवति हि प्रादुर्भूतपरमज्योतिषां योगिनां साचिव्यादितरेषामपि योग्यानां तत्प्रादुर्भाव इति न किमप्यत्र चित्रम् । अभिहितञ्चैतदेव तत्त्वमुपनिषत्सु प्रकारान्तरेण ॐ पूर्णमदः पूर्णमिदं, पूर्णात् पूर्णमुदच्यते। पूर्णस्य पूर्णमादाय, पूर्णमेवावशिष्यते । इति (प्रभूतेषूपनिषत्सु) सोऽयं भगवदनुग्रहादिपदप्रतिपाद्यः परमज्योतिःस्पर्शः यमवाप्य कृतार्थतां व्रजति विनेयसत्त्वविसरः, नातोऽपि परमः पारम्यप्राप्त्युपायः कृत्स्नेऽपि जगति, तत्त्वतस्तद्धीनस्याप्यभावादिति निपुणं निभालनीयम् । अथ परमज्योतिष एव माहात्म्यं दृढयन्ति पश्यन्न परमं ज्योति-विवेकाद्रेः पतत्यधः । परमं ज्योतिरन्विच्छ-नाविवेके निमज्जति ॥ ७ ॥ विवेकाचलाधिरोहणस्य तदाश्रयकावस्थितेश्च परमज्योतिसम्प्रेक्षणैकयोनित्वात् । तदीक्षणैकजीवनो हि विवेकः, तदुपरमे तदुपरतेरध्यक्षसिद्धत्वादित्याकूतम् । ननु च मा भूद् विवेकः, को दोष इति चेत् ? को नेत्युच्यताम्, सर्वेषामपि दोषाणां

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 132