Book Title: Aho shrutam E Paripatra 02 Samvat 2071 Meruteras 2015
Author(s): Babulal S Shah
Publisher: Ashapuran Parshwanath Jain Gyanbhandar Ahmedabad

View full book text
Previous | Next

Page 8
________________ मा भूत्तदितरस्मिन् परमज्योतिराश्रयत्वभ्रान्तिरित्ययं स्पष्टो निर्देशः । अयमात्मैव शुद्धकाष्ठां प्रापितो विश्वमपि विश्वं प्रकाशयति अस्यैव परमदीपायुपमोपमेयत्वेन परमज्योतिर्भूतत्वादिति हृदयम्, अत एवाहुः परमात्मस्तवे निधूमवर्तिरपवर्जिततैलपुरः, कृत्स्नं जगत्त्रयमिदं प्रकटीकरोसि। गम्यो न जातु मरुतां चलिताचलानां दीपो परस्त्वमसि नाथ ! जगत्प्रकाशः ।। -इति (भक्तामरस्तोत्रे) अत्र लोक इति जीवादिद्रव्याऽऽधारभूतोऽवकाशः, अलोकस्तु तयतिरिक्तः, निःसीमक्षेत्रश्च सः, गगनस्यानन्तत्वात् । लोकालोकप्रकाशकत्वं चात्मनो ज्ञस्वभावत्वात्, प्रतिबन्धकाभावे तत्स्वभावाऽऽविर्भावस्य नैसर्गिकत्वात् । उक्तञ्च-ज्ञो ज्ञेये कथमज्ञः स्यादसति प्रतिबन्धके ? । दाह्येऽग्निर्दाहको न स्यादसति प्रतिबन्धके ? - इति । अतोऽभ्युपेयमस्य तत्प्रकाशकत्वमिति। ननु किंस्वरूपं भवतीदं परमज्योतिरिति चेत् ? अत्राऽऽहुः निरालम्बं निराकारं, निर्विकल्पं निरामयम्। आत्मनः परमं ज्योति-र्निरुपाधि निरञ्जनम् ॥ ३ ॥ परमं ज्योतिरिदं निरालम्बम्, दीपादिवत् स्नेहाद्यालम्बनशून्यत्वात् । किञ्चेदं निराकारम्, घटादिवद् दृश्यबाह्याकारविरहितत्वात् । अपि चेदं निर्विकल्पम्, स्तिमितोदधिसङ्काशतया विकल्पवीचिरहितत्वात्, तद्भावोऽपि परपरिणामाभावात्, आहुश्चान्यत्र पञ्चविंशतिकाकारा एव-जलहिंमि असंखोभे पवणाभावे जह जलतरंगा । परपरिणामाभावे णेव वियप्पा तया हुँति-इति (धर्मपरीक्षायाम्)। किञ्चान्यत्, निरामयमपीदम्, कर्मादिकृतविपाकागोचरत्वात्, न हि तद्विपाकगोचरत्वेतर आत्मन आमय इति भावनीयम्। तथैतन् निरुपाधि, सन्तमसस्थानीयभ्रान्तिभेदे तदुत्थितोपाधिभेदस्याप्यावश्यकत्वात्, तद्भेदे चाविर्भवेदेव निरुपाधिस्वस्वभावः, आवृत्यपगमे आवृताविर्भावस्य स्वाभाविकत्वात्, अत एवोपनिषत्-उपाधिनाशाद् ब्रह्मैव-इति (आत्मोपनिषदि)। अत एवेदं निरञ्जनम्, उपाधिमूलतया रागस्य तदभावेऽनुत्थानात्, मूलं नास्ति

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 132