Book Title: Aho shrutam E Paripatra 02 Samvat 2071 Meruteras 2015
Author(s): Babulal S Shah
Publisher: Ashapuran Parshwanath Jain Gyanbhandar Ahmedabad

View full book text
Previous | Next

Page 21
________________ ॥एँ नमः॥ ॥श्री गौतमस्वामिने नमः॥ श्री प्रेम-भुवनभानु-जयघोष-जितेन्द्र-गुणरत्न-रश्मिरत्नसूरिसद्गुरुभ्यो नमः॥ पूर्वमहर्षि श्री मल्लिषेणविरचितं पूर्वाचार्य श्री सिंहसूरीश्वरविरचितवृत्तियुतं ।। श्री सज्जनचित्तवल्लभम् ।। लब्धिमन्तं विशेषज्ञमिन्द्रभूतिं गणेश्वरं। सच्चित्तप्रियवृत्तस्य नत्वा वृत्तिं करोम्यहं । तावदस्य सज्जनचित्तवल्लभग्रन्थकर्तुः करणवक्तव्यतामाह-एकस्मिन्नगराभ्यासे वने सैकशिष्यः साधुस्तपः कुर्वंस्तिष्ठति । किंविशिष्टः सः ? परमोत्कर्षवैराग्यरागजाग्रत्संसारावस्थायथवस्थितजरामृत्युरोगवियोगदुःखक्लेशार्तिसर्वभवस्थितिं विभावयन्नास्ते । जैनेश्वरमार्ग सत्यतया मन्वानस्तिष्ठति । तदा तन्नगरवासी सद्गुणाकृष्टचेतास्तं मुनि सिषेवे । कियत्कालान्तरे राजा मुनिं प्रति सम्यगञ्जलिं कृत्वा जगाद, स्वामिन् ! ममोपरि कृपां विधाय नगरान्तरे मदीयनिरवद्यचित्रशालोपाश्रये प्रधार्यतां, यथा मदीया सेवा सनातया प्रभोः पादयोर्निश्चलचेतसो भवति । तदा मुनीशेनोक्तं “साधवो वनवासिन एव भव्याः” । नगरीशेनोक्तं, “श्रीमतां नगरमेव वनं” इत्याग्रहे क्रियमाणे नगरान्तरे राज्ञोक्ते स्थाने स साधुराजगाम । तत्रापि कियत्कालं पूर्ववद् विधिना तपस्तप्यमानः क्रियां कुर्वाणः परगृहेऽनियताऽऽहारं च कुर्वंस्तस्थौ । ततश्चिरकालोषितत्वेन राजाऽन्तःपुरवारवधूकुटहारिकाजनसेव्यमानाऽनेकमाननी मनोज्ञसौंदर्यरूपलावण्यकलाकौशल्यनेपथ्यपरिधाननानाविधपुष्पग्रन्थनमृगमदचन्दन चन्द्रघुसृणविलेपनतिलकादियुक्तस्त्रीजनसंसर्गत्वेन गुरोश्चेतस्स्मरप्रेरिततया सद्धर्मगिरिशिखराच्छ्रस्तं । तदा ताभिः सह हास्यलास्यगीतस्मिता-च्छुकभाषणरहोवार्ता प्रवलिहका-शृङ्गार-दोधककाव्यकथाकौतुककटाक्षावलोकनस्त्रीजनाऽधरोष्टपयोधरा ङ्गोपाङ्गनिरीक्षणादिकं कुर्वाणो गुरुस्तिष्ठति । तदन्तेवासिना ज्ञातं, मदीयधर्मोपदेशकः सम्यग्ज्ञानदर्शनचारित्राण्यवगण्य स्त्रीजनेषु मग्न एवावलोक्यते। किं मे गुरुर्मनसीत्थं न वेत्ति, स्त्रीणां सर्वेऽप्यन्तरबाह्यभावा इन्द्रचाप-करिकर्ण अश्वत्थपर्णवत्क्षणिका एव स्युः । किं मे गुरोश्चेतसीत्थं नायाति, ललनाङ्गचेष्टालका एवासां दुष्टतां दर्शयति । किमिति ? एतच्छिरसि कृष्णस्निग्धधम्मिल्लवाला न, किन्तु 19

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132