Book Title: Aho shrutam E Paripatra 02 Samvat 2071 Meruteras 2015
Author(s): Babulal S Shah
Publisher: Ashapuran Parshwanath Jain Gyanbhandar Ahmedabad
View full book text ________________
मूलं किं तपसः क्षमेन्द्रियजयः सत्यं सदाचारता।
रागादींश्च बिभर्ति चेन्न स यति लिङ्गी भवेत्केवलम् ॥ ३॥ व्याख्या- यः साधु रागादीन् राग-द्वेष-मिथ्यात्वाऽविरताऽऽश्रवादीन् चेद्यदि बिभर्ति दघात्यर्थात्संचिनोति स यतिर्न नैव, किन्तु केवलं यतिधर्मादिगुणरहितत्वेन सर्वथा स लिङ्गी भवेद्वेषधारक एव स्यात् । “यत्तदोर्नित्याभिसंबंधात्” । भो इत्यामन्त्रणे हे साधो! असौ संयमादिरहितो वस्त्रत्यजनेन, वस्त्रमित्युक्तेऽत्यंतनिरुपधित्वेनापि किमिति वितर्के, एतावता मुनिर्जायते किमियता वस्त्रादित्यागेन साधुर्भवेत् ? अपि तु न । अत्र दृष्टान्तमाह-क्ष्वेडेन कञ्चुकेन च्युतस्सक्तः पन्नगो दर्वीकरः स क्ष्वेडेनच्युतपनगोऽत्रालुक्समासः । निर्मोकरहितः सर्पः किमिति प्रश्ने, भूतले पृथिव्यां गतविषो निर्गरो जातवानभूदपि तु नैव । यथा कञ्चुकेन विना निर्विषो न भवेत्तथा केवलांबराभावेन साधुरपि न स्यात् । कश्चित्पृच्छति तपसो जितेन्द्रियस्य वा संयमस्य मूलं पूर्वभाविकरणं किं “तपस्तपस्विनो धार्य-धारिकभावादैक्य” इति प्रश्ने वक्ष्यामि क्षमा क्षान्ति रे मुण्ड ! रे शुद्र ! इत्यादि भाषिते क्रोधाभावः । इन्द्रियजयोऽखिलाक्षवशीकरणं । सत्यं-सर्वं प्राणिहितकृदनलिकं । सदाचारता सच्छिष्याऽऽसेवनात्मक एषु सदा वर्तमानः साधुर्भवतीति काव्यार्थः ।। ३ ।।
॥ गाथा-४॥ किं दीक्षाग्रहणेन ते यदि धनाकाङ्क्षा भवेच्चेतसि । किं गार्हस्थ्यमनेन वेषधारणेनासुन्दरं मन्यसे । द्रव्योपार्जनचित्तमेव कथयत्यभ्यन्तरस्थांगजं ।
नो चेदर्थपरिग्रहाग्रहमति-र्भिक्षो न संपद्यते ॥४॥ व्याख्या- हे साधो ! यदि ते तव चेतसि मनसि घनाकाङ्क्षा भवेत्स्वापतेयसंचयवांच्छा स्यात्, तर्हि दीक्षाग्रहणेन किं ? गुरोरग्रे सत्संयमादानेन किं ? अपि तु न किमपि । तदेव द्रढयति हे मुने ! अनेन वेषधरणेनामुना वित्तवर्धनोपायरचितविशिष्टयतिगुणवर्जितलिङ्गेन कृत्वा किं ? गार्हस्थ्यं गृहाश्रमं असुंदरं अमनोज्ञ, मन्यसे जानासि । एतावता सत्संयमगुणवर्जितमुनिवेषात् धामस्थ्यं दुष्टं नास्तीतिभावः । अत्रोपनयमाहद्रव्योपार्जनचित्त एव वित्तैकत्रकरणसंग्रहणमन एव भवत इति शेषः, तदेवाभ्यन्तरस्थाङ्गजं मध्यवर्त्तिकामं प्रतिकथयति । एतावता यः कामी भवति स
22
Loading... Page Navigation 1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132