SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ मूलं किं तपसः क्षमेन्द्रियजयः सत्यं सदाचारता। रागादींश्च बिभर्ति चेन्न स यति लिङ्गी भवेत्केवलम् ॥ ३॥ व्याख्या- यः साधु रागादीन् राग-द्वेष-मिथ्यात्वाऽविरताऽऽश्रवादीन् चेद्यदि बिभर्ति दघात्यर्थात्संचिनोति स यतिर्न नैव, किन्तु केवलं यतिधर्मादिगुणरहितत्वेन सर्वथा स लिङ्गी भवेद्वेषधारक एव स्यात् । “यत्तदोर्नित्याभिसंबंधात्” । भो इत्यामन्त्रणे हे साधो! असौ संयमादिरहितो वस्त्रत्यजनेन, वस्त्रमित्युक्तेऽत्यंतनिरुपधित्वेनापि किमिति वितर्के, एतावता मुनिर्जायते किमियता वस्त्रादित्यागेन साधुर्भवेत् ? अपि तु न । अत्र दृष्टान्तमाह-क्ष्वेडेन कञ्चुकेन च्युतस्सक्तः पन्नगो दर्वीकरः स क्ष्वेडेनच्युतपनगोऽत्रालुक्समासः । निर्मोकरहितः सर्पः किमिति प्रश्ने, भूतले पृथिव्यां गतविषो निर्गरो जातवानभूदपि तु नैव । यथा कञ्चुकेन विना निर्विषो न भवेत्तथा केवलांबराभावेन साधुरपि न स्यात् । कश्चित्पृच्छति तपसो जितेन्द्रियस्य वा संयमस्य मूलं पूर्वभाविकरणं किं “तपस्तपस्विनो धार्य-धारिकभावादैक्य” इति प्रश्ने वक्ष्यामि क्षमा क्षान्ति रे मुण्ड ! रे शुद्र ! इत्यादि भाषिते क्रोधाभावः । इन्द्रियजयोऽखिलाक्षवशीकरणं । सत्यं-सर्वं प्राणिहितकृदनलिकं । सदाचारता सच्छिष्याऽऽसेवनात्मक एषु सदा वर्तमानः साधुर्भवतीति काव्यार्थः ।। ३ ।। ॥ गाथा-४॥ किं दीक्षाग्रहणेन ते यदि धनाकाङ्क्षा भवेच्चेतसि । किं गार्हस्थ्यमनेन वेषधारणेनासुन्दरं मन्यसे । द्रव्योपार्जनचित्तमेव कथयत्यभ्यन्तरस्थांगजं । नो चेदर्थपरिग्रहाग्रहमति-र्भिक्षो न संपद्यते ॥४॥ व्याख्या- हे साधो ! यदि ते तव चेतसि मनसि घनाकाङ्क्षा भवेत्स्वापतेयसंचयवांच्छा स्यात्, तर्हि दीक्षाग्रहणेन किं ? गुरोरग्रे सत्संयमादानेन किं ? अपि तु न किमपि । तदेव द्रढयति हे मुने ! अनेन वेषधरणेनामुना वित्तवर्धनोपायरचितविशिष्टयतिगुणवर्जितलिङ्गेन कृत्वा किं ? गार्हस्थ्यं गृहाश्रमं असुंदरं अमनोज्ञ, मन्यसे जानासि । एतावता सत्संयमगुणवर्जितमुनिवेषात् धामस्थ्यं दुष्टं नास्तीतिभावः । अत्रोपनयमाहद्रव्योपार्जनचित्त एव वित्तैकत्रकरणसंग्रहणमन एव भवत इति शेषः, तदेवाभ्यन्तरस्थाङ्गजं मध्यवर्त्तिकामं प्रतिकथयति । एतावता यः कामी भवति स 22
SR No.523351
Book TitleAho shrutam E Paripatra 02 Samvat 2071 Meruteras 2015
Original Sutra AuthorN/A
AuthorBabulal S Shah
PublisherAshapuran Parshwanath Jain Gyanbhandar Ahmedabad
Publication Year2015
Total Pages132
LanguageHindi, Sanskrit
ClassificationMagazine, India_Aho Shrutgyanam, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy