________________
साभिप्रायं पदं, किमिति ? अन्योऽपि संग्रामशिरसि वीर एव श्लाघ्यः, अत्राऽपि मदनसंयज्जयार्थं वीरजिन एव नमस्करणीयः । पुन किं ? जगत्त्रयगुरुं लोकत्रयीशं । पुन किं? मुक्तिश्रियोवल्लभं मुच्यतेऽनयेति मुक्तिस्तस्याः श्री शोभा लक्ष्मी वा तस्याः वल्लभः प्रेयांस्तं । पुनः किं ? पुष्पेषुः कामस्तस्य क्षयं नीता बाणनिवहाः प्रलयं प्राप्ताः कोदण्डसमूहा येन सः पुष्पेषुक्षयनीतबाणनिवहस्तं । बाणास्तु पञ्चेव, निवहा इत्युक्तमति दुस्सहत्वादिति । ते के पञ्चबाणाः ? तद्यथा (१) प्रथमस्तु द्रष्टाग्रेतनस्य दृष्टिं योजयति, (१) तदनन्तरं दृष्टिप्रसरो नयनचालना भवेत्, (३) ततो द्वयो रागो भवति, (४) ततो परस्परं स्वभावं ज्ञापयति, (५) ततो द्वयोः स्नेहो बन्धो भवतीति । पुनः किं ? संसारदुखापहं संसरणः चतुरशीतियोनिषु भ्रमणमिति संसारस्तत्र दुःखं जन्ममृत्युरोगवियोगादिकं अपहतीति संसारदुःखापहस्तं वीरजिनं नत्वेति सर्वत्र संबंध्यत इति काव्यार्थः ।। १ ।।
॥ गाथा-२॥ रात्रिश्चन्द्रमसा विनाऽब्जनिवहै! भाति पद्माकरो। यद्वत्पड़ितलोकवर्जितसभा दन्तीव दन्तं विना॥ पुष्पं गंन्धविवर्जितं मृतपति स्त्रीवेह तद्वन्मुनि-।
श्वारित्रेण विना न भाति सततं यद्यप्यसौ शास्त्रवान् ॥ २ ॥ व्याख्या- असावेष मुनिः यद्यपि चेदपि शास्त्रवान् साङ्गोपाङ्गसिद्धांतव्याकरणनामकोशतर्कालङ्कारप्रमुखाधीत्यपि पठितोऽपि सन् चारित्रेण विना सत्संयमादृते सततं निरंतरं नो भाति न शोभते । दृष्टान्तैराह-यथा चन्द्रमसा चन्द्रेण विना रात्रिर्यामिनी “नो भाति” इति पदं सर्वत्र संबध्यते । पुनरब्जनिवहैः कमलपुजैर्विना यथा पद्माकरो नो भाति । इवेत्यौपम्येद्यथा दन्तं विना न हि शौभाकृद्दशनाभ्यां विना दन्ती हस्ती नो भाति । पुनर्गन्धविवर्जितमाऽऽमोदरहितं-पुष्पं कुसुमं नो भाति । इहास्मिन् लोके यथा मृतपतिस्त्री पतिवर्जिता नारी नो भाति, सद्वस्त्रभोजनकुसुमसुगन्धतैलसद्भूषणचर्यातिलकहारनुपुराद्यलकारा विघवानां न शौभायन्ते । तद्वत्तथैव मुनिर्यतिरपि चारित्रेण विना नो भातीति काव्यार्थः ।। २ ॥
॥ गाथा-३॥ किं वस्त्रत्यजनेन भो मुनिरसावेतावता जायते। क्ष्वेडेन-च्युत पन्नगो गतविषः किं जातवान् भूतले ॥
21