Book Title: Agam Sutra Satik 41B Pindniryukti MoolSutra 2b
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मूलं- ४८
मू. (४८)
ओयणवंजनपानगआयामुसिणोदगं च कुम्मासा । डगलगसरक्खसूई पिप्पलमाई उ उवओगो ॥
वृ. ओदनः शाल्यादि भक्त व्यञ्जनं- पत्रशाकतीमनादि पानकं काञ्जिकं, तत्र ह्यवश्रावणं प्रक्षिप्यते, ततस्तदपेक्षया काञ्चिकस्याग्रिकायता आयामम् अवश्रावणम् उष्णोदकम् - उद्धृत्तत्रिदण्डम्, एतेषां चपदानां समाहारद्वन्द्वः, चकारो मण्डकादिसमुचयार्थः, 'कुल्माषाः ' पक्का माषाः, एते चौदनादयोऽग्निनिष्पन्नत्वेनाग्निकार्यत्वादग्रयो व्यपदिश्यन्ते, भवति च तत्कार्यत्वातच्छब्देन व्यपदेशो यथा द्रम्मो भक्षितोऽनेनेत्यादौ, ओदनादयश्वाचित्तास्तत एतेषामचित्ताग्रिकायत्वेनाभिधानं न विरुध्यते, तथा 'डगलका:' पक्वेष्टकानां खण्डानि ' सरजस्कः ' भस्म 'सूची' लोहमयी वस्त्रसीवनिका, अथवा सरक्खसूइत्ति रक्षा भस्म सह रक्षया वर्त्ततेइतिसरक्षासूची, किमुक्तं भवति ? - रक्षासूचीचेति, 'पिप्पलकः' किञ्चिद्रकः क्षुरविशेषः, आदिशब्दान्नखरदनि-कादिपरिग्रहःएतानिइतिसरक्षा सूची, किमुक्त भवति ? - रक्षा सूची चेति, 'पिप्ललकः किञ्चिद्रक्रः क्षुरविशेषः आदिशब्दान्नखरदनिकादिपरिग्रह. एतानिच डगलकादीनि पूर्वमग्निरूपतया परिणतान्यासीरन्, ततो भूतपूर्वगत्या सम्प्रत्यप्यनिकायत्वेन व्यपदिश्यन्तेऽचित्तानि च, न चैतेषामचित्तानिकायत्वाभिधाने वि रोधः । सम्पत्यचित्ताग्निकायस्य प्रयोजनमाह- 'उवओगो' एतेषामोदनादीनां य उपयोगी भोजनादावुपयुज्यमानता तदचित्तालिकायेन साधूनां प्रयोजनं, द्रव्यादिभेदाच्च चतुर्विधत्वमचित्ताग्निकायस्य प्रागिव यथायोगं भावनीयम् ॥ उक्तस्तेजस्कायणियपिण्डः सम्प्रतिवायुकायपिण्डमहा
मू. (४९)
वाउक्काओ तिविहो सच्चित्तो मीसओ य अच्चित्तो ।
सच्चित्तो पुन दुविहो निच्छयववहारओ चे ॥
वृ. वायुकायस्त्रिविधः, तद्यथा - सचित्तो मिश्रोऽचिंत्तश्व, सचित्तः, पुनर्द्विधा - निश्चयतो व्यवहारतश्च ॥ एतदेव निश्रयव्यवहाराभ्यां सचित्तस्य द्वैविध्यमचित्तं चाह
मू. (५०)
संवलय घनतनुवाया अइहिम अइदुद्दिने य निच्छयओ । ववहार पाइणाई अक्कंताई य अच्चित्तो ॥
२५३
वृ. सह वलयैर्वर्त्तन्ते इति सवलया ये 'धनतनुवाय'त्ति वातशब्दः प्रत्येकमाभिसम्बध्यते, घनवातास्तनुवाताच, किमुक्तं भवति ? - ये नरकपृथिवीनां पार्श्वेषु घनवातास्तनुवाता वा वळयाकारणे व्यवस्थिता वलयशब्दवाच्याः, ये न च नरकपृथिवीनामेवावस्ताद् घनवातास्तनुवाताच, तथा 'अड़हिम अड़दुद्दिने अति अतिशयेन हिमे निपतति अतिशयेन च 'दुर्द्दिन' मेघतिमिरे मेघैर्गगनमण्डलस्याऽऽच्छादने ये वायवः, ' सर्वोऽपि वायुकायो निश्रयतः सचितः, अतिहिमातिदुर्द्दिनाभावे तु यः 'प्राचीनादिवातः' पूर्वादिदिग्वातः स व्यवहारतः सचितः, यस्तु आक्रान्तदिकः' आक्रान्तपङ्कादिसमुत्थप्रभृतिकः पञ्चमकारी वक्ष्यमाणस्वरूपः सोऽचित्त इति । आक्रान्ता दिस्वरूपमेवाह
एष
मू. (५१)
Jain Education International
अक्कसंधताघाने देहानुए य पीलिया इसु य । अचित्त वाउकाओ भणिओ कम्मट्टमहणेहिं ॥
वृ. आक्रान्तं-पांइनाक्रान्ते कर्तुमादौ योवाताचिदिति शब्द कुन्समुच्छलति, यश्राध्मातेमुखवातमृत हत्यादौ वर्त्तते यो वा 'घोणे' तिलपीडनयन्त्रे तिलपीडनवशात्सशब्दं विनिर्गच्छन्नपुलभ्यते, यश्च 'देहागुनतः ' शरीराश्रितः, उच्छवासनिःश्वासवातानिसर्गरूपः, 'पीलितं ' सजलं निश्रोत्यमानं वस्त्रादि, आदिशब्दातालवृन्तादिपरिग्रहः, तेषु चयः सम्भवति वातः एष पञ्चप्रकारोऽपि वातः कर्माष्टकमयनैरचित्तः प्रतिपादितः ।।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202