Book Title: Agam Sutra Satik 41B Pindniryukti MoolSutra 2b
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 173
________________ ४०४ घेत्तव्वमलेवकडं लेवकडे मा हु पच्छकम्माई । न य रसगेहिपसंगो इअ वृत्ते चोयगो भणइ ॥ पिण्डनियुक्ति:- मूलसूत्र मू. (६५५) वृ. इह साधुना सदैव ग्रहीतव्यमलेपकृद्-वल्लचनकादि, माऽभूवन् लेपकृति गृह्यमाणे पश्चात्कर्मादयो दध्यादिलिप्तहस्तादिप्रक्षालनादिरूपादोषाः, आदिशब्दात्कीटिकादिसंसक्त वस्त्रादिना प्रोच्छनादिपरिग्रहः, अतो लेवकृन्न ग्रहीतव्यम् । अलेपकृद्गृहणे गुणमाह-न च सदैवालेपकृतो ग्रहणे 'रसगृद्धिप्रसङ्गः ' रसाभ्यवहारलाम्पट्यवृद्धिः, तस्मात्तदेव साधुभिः सदैवाभ्यवहार्यम् । एवमुक्ते सति चोदको भणतिमू. (६५६) जई पच्छकम्मदोसा हवंति मा चेव भुंजऊ सययं । तवनियमसंजमाणं चोयग | हानी खमंतस्स ॥ वृ. यदिलेपकृद्गृहणेपञ्चात्कर्मप्रभृतयो दोषा भवन्तिततस्तन्नगृह्यतेतर्हिमा कदाचनापिसाधुर्भुक्ताम् एवं हि दोषाणां सर्वेषां मूलत एवोत्थानं निषिद्धं भवति, सूरिराह- हे चोदक | सर्वकलां क्षपयतः अनशनतपोरूपं क्षपणं कुर्वतः साधोविर कालभावितपोनियमसंयमानां हानिर्भवति, तस्मान्न यावज्जीवं क्षपणं कार्ये । पुनरपि परः प्राह - यदि सर्वकालं क्षपणं कर्तुमशक्त स्तर्हि षण्मासक्षपणं कृत्वा पारणकमलेपकृता विधत्तां, गुरुराहयद्येवं कुर्तस्तपः संयमयोगान् कर्तुं शक्नोति तर्हि करोतु, न कोऽपि तस्य निषेद्धा, ततो भूयोऽपि चोदको ब्रूतेयद्येवं तर्हि षण्मासानुपोष्याचाम्लेन भुङ्गां, न चेच्छक्नोति तत एकदिनादिहान्या तावत्परिभावयेत् यावच्चतुर्थमुपोष्याचाम्लेन पारयेत्, एवमप्यसंस्तरणे सदैवालेपकृतं गृह्णीयात् । अमुमेव गाथया निर्दशतिमू. (६५७) लित्तंति भाणिऊणं छम्मासा हायए चउत्थं तु । आयंबिलस्स गहणं असंथरे अप्पलेवं तु ॥ वृ. लिप्तं सदोषमिति भणित्वाऽलेकृद्भोक्त व्यं तीर्थकरगमधरैरनुज्ञातमिति गुरुवचनन् । अत्र चोदक आह-यावज्जीवमेव मा भुङ्क्तां, नो चेत् यावज्जीवमभोजनेन शक्नोति तर्हि षण्मासानुपोष्य आचाम्लेन भुङ्क्तां, न चेदेवमपि शक्नोति तत एकदिनादिहान्या तावदात्मानं तोलयेत् यावच्चतुर्थमुपोष्याचाम्लस्य ग्रहणं करोतु, एवमप्यसंस्तरणे अशक्तावल्पलेपं गृह्यातु । एनामेव गाथां गाथाद्वयेन विवृणोतिमू. (६५८) आयंबिलपारणए छम्मास निरंतरं तु खविऊणं । जइन तरइ छम्मासे एगदिनूनं तओ कुणउ ॥ एवं एक्केकदिनं आयंबिल पारणं खवेऊणं । दिवसे दिवसे गिues आयंबिलमेव निल्लेवं ॥ मू. (६५९ ) वृ. यदि सर्वकालं कर्तुमशक्त स्तर्हि षण्मासान्निरन्तरं क्षपयित्वा पारणके आचाम्लं करोतु, यदि षण्मासानुपवस्तुं न शक्नोतिततएकदिनीनान् करोतु, एवं षण्मासावधिरक कंदिनंपरित्यज्याचाम्लेनपारणकं तावत्करीतु यावचतुर्थ, एवमप्यसामर्थ्य दिवसे दिवसे गृह्णात्वाचाम्लं निर्लेपमिति ॥ गुरुराहas से न जोहानी संप इसे व होइ तो खमओ । मू. (६६०) खमणंतरेण आयंबिलं तु निययं तवं कुणइ ॥ Jain Education International वृ. यदि से' तस्य साधीः सम्प्रति' तदात्वेष्यतिवाकाले नयोगहानिः प्रत्युपक्षणादिरूपसंयमयोगभ्रंशां न भवति तर्हि भवतु क्षपकः- षण्मासाद्युपदासकर्त्ता । तत्र च क्षपणानामेकैकदिनहान्या पूर्वोक्तस्वरूपाणामन्तरान्तरा पारणकमाचाम्लं करोतु, एवमप्यशक्तौ 'नियतं ' सदैवाचाम्लरूपं तपः करोतु, केवल सम्प्रति सेवार्त्तसंहननानां नास्ति तादृशी शक्ति रिति न तथोपदेशो विधीयते । पुनरपि पर आह For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202