SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ मूलं- ४८ मू. (४८) ओयणवंजनपानगआयामुसिणोदगं च कुम्मासा । डगलगसरक्खसूई पिप्पलमाई उ उवओगो ॥ वृ. ओदनः शाल्यादि भक्त व्यञ्जनं- पत्रशाकतीमनादि पानकं काञ्जिकं, तत्र ह्यवश्रावणं प्रक्षिप्यते, ततस्तदपेक्षया काञ्चिकस्याग्रिकायता आयामम् अवश्रावणम् उष्णोदकम् - उद्धृत्तत्रिदण्डम्, एतेषां चपदानां समाहारद्वन्द्वः, चकारो मण्डकादिसमुचयार्थः, 'कुल्माषाः ' पक्का माषाः, एते चौदनादयोऽग्निनिष्पन्नत्वेनाग्निकार्यत्वादग्रयो व्यपदिश्यन्ते, भवति च तत्कार्यत्वातच्छब्देन व्यपदेशो यथा द्रम्मो भक्षितोऽनेनेत्यादौ, ओदनादयश्वाचित्तास्तत एतेषामचित्ताग्रिकायत्वेनाभिधानं न विरुध्यते, तथा 'डगलका:' पक्वेष्टकानां खण्डानि ' सरजस्कः ' भस्म 'सूची' लोहमयी वस्त्रसीवनिका, अथवा सरक्खसूइत्ति रक्षा भस्म सह रक्षया वर्त्ततेइतिसरक्षासूची, किमुक्तं भवति ? - रक्षासूचीचेति, 'पिप्पलकः' किञ्चिद्रकः क्षुरविशेषः, आदिशब्दान्नखरदनि-कादिपरिग्रहःएतानिइतिसरक्षा सूची, किमुक्त भवति ? - रक्षा सूची चेति, 'पिप्ललकः किञ्चिद्रक्रः क्षुरविशेषः आदिशब्दान्नखरदनिकादिपरिग्रह. एतानिच डगलकादीनि पूर्वमग्निरूपतया परिणतान्यासीरन्, ततो भूतपूर्वगत्या सम्प्रत्यप्यनिकायत्वेन व्यपदिश्यन्तेऽचित्तानि च, न चैतेषामचित्तानिकायत्वाभिधाने वि रोधः । सम्पत्यचित्ताग्निकायस्य प्रयोजनमाह- 'उवओगो' एतेषामोदनादीनां य उपयोगी भोजनादावुपयुज्यमानता तदचित्तालिकायेन साधूनां प्रयोजनं, द्रव्यादिभेदाच्च चतुर्विधत्वमचित्ताग्निकायस्य प्रागिव यथायोगं भावनीयम् ॥ उक्तस्तेजस्कायणियपिण्डः सम्प्रतिवायुकायपिण्डमहा मू. (४९) वाउक्काओ तिविहो सच्चित्तो मीसओ य अच्चित्तो । सच्चित्तो पुन दुविहो निच्छयववहारओ चे ॥ वृ. वायुकायस्त्रिविधः, तद्यथा - सचित्तो मिश्रोऽचिंत्तश्व, सचित्तः, पुनर्द्विधा - निश्चयतो व्यवहारतश्च ॥ एतदेव निश्रयव्यवहाराभ्यां सचित्तस्य द्वैविध्यमचित्तं चाह मू. (५०) संवलय घनतनुवाया अइहिम अइदुद्दिने य निच्छयओ । ववहार पाइणाई अक्कंताई य अच्चित्तो ॥ २५३ वृ. सह वलयैर्वर्त्तन्ते इति सवलया ये 'धनतनुवाय'त्ति वातशब्दः प्रत्येकमाभिसम्बध्यते, घनवातास्तनुवाताच, किमुक्तं भवति ? - ये नरकपृथिवीनां पार्श्वेषु घनवातास्तनुवाता वा वळयाकारणे व्यवस्थिता वलयशब्दवाच्याः, ये न च नरकपृथिवीनामेवावस्ताद् घनवातास्तनुवाताच, तथा 'अड़हिम अड़दुद्दिने अति अतिशयेन हिमे निपतति अतिशयेन च 'दुर्द्दिन' मेघतिमिरे मेघैर्गगनमण्डलस्याऽऽच्छादने ये वायवः, ' सर्वोऽपि वायुकायो निश्रयतः सचितः, अतिहिमातिदुर्द्दिनाभावे तु यः 'प्राचीनादिवातः' पूर्वादिदिग्वातः स व्यवहारतः सचितः, यस्तु आक्रान्तदिकः' आक्रान्तपङ्कादिसमुत्थप्रभृतिकः पञ्चमकारी वक्ष्यमाणस्वरूपः सोऽचित्त इति । आक्रान्ता दिस्वरूपमेवाह एष मू. (५१) Jain Education International अक्कसंधताघाने देहानुए य पीलिया इसु य । अचित्त वाउकाओ भणिओ कम्मट्टमहणेहिं ॥ वृ. आक्रान्तं-पांइनाक्रान्ते कर्तुमादौ योवाताचिदिति शब्द कुन्समुच्छलति, यश्राध्मातेमुखवातमृत हत्यादौ वर्त्तते यो वा 'घोणे' तिलपीडनयन्त्रे तिलपीडनवशात्सशब्दं विनिर्गच्छन्नपुलभ्यते, यश्च 'देहागुनतः ' शरीराश्रितः, उच्छवासनिःश्वासवातानिसर्गरूपः, 'पीलितं ' सजलं निश्रोत्यमानं वस्त्रादि, आदिशब्दातालवृन्तादिपरिग्रहः, तेषु चयः सम्भवति वातः एष पञ्चप्रकारोऽपि वातः कर्माष्टकमयनैरचित्तः प्रतिपादितः ।। For Private & Personal Use Only www.jainelibrary.org
SR No.003379
Book TitleAgam Sutra Satik 41B Pindniryukti MoolSutra 2b
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages202
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 41, & agam_pindniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy