Book Title: Agam Sutra Satik 41B Pindniryukti MoolSutra 2b
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 66
________________ मूलं- १७८ / १ साधर्मिका भावनातच न चरणतां नापि भावनातः अस्या उदाहरणान्यतिदेशत आह मू. (१७८/२) एवं तु भावणासुवि वृ. यथा चरणेन सहाभिग्रहे उदाहृतम् एवं भावनास्वप्युदाहर्त्तव्यं, तच्चैवं चरणतः साधर्मिका न भावनातः समानचरणविभिन्नभावना यतयः १. भावनातः साधर्मिका न चरणतः समानभावना निह्नवाः श्रावका विभिन्नचरणा यतयश्व २, चरणतः साधर्मिका भावनातश्च समानचरणभावनना यतयः ३, न चरणतो नापि भावनातो 'विसदृशचरण भावनाः साधवो विसदृशभावनाः श्रावका निह्नवाश्र ४, अत्र चतुर्ष्वपि भङ्गकेषु कल्प्याकल्प्यविधिः प्रागिव । तदेवं चरणविषयेऽपि द्रे चतुर्भङ्गिके उक्ते, सम्प्रत्यभिग्रहभावनयोश्चतुर्भङ्गिकांवोच्छं दोपहतिमाणित्तो ॥ २१७ मू. (१७८/३) वृ. इतिऊर्ध्वद्रयोरन्तिमयोः - अभिग्रहभावनालक्षणयोः पदयोचतुर्भङ्गिकामुढाहरणतोवक्ष्ये । तत्र तयोरियं चतुर्भङ्गिका अभिग्रहतः साधर्मिका न भावनातः, भावनातः साधर्मिका नाभिग्रहतः, भावनातः साधर्मिका अभिग्रहतच, नाभिग्रहतो नापि भावनातः । तत्राद्यं भङ्गद्रयमुदाजिहीर्षुराह मू. (१७९/१) जड़णां सावग निण्हव पढमे बिड़ए य हुंति भंगे य। वृ. अभिग्रहतः साधर्मिका न भावनात इत्येवंरूपै प्रथमे भङ्गे भावनातः साधर्मिका नाभिग्रहत इत्येवंरूपे द्वितीये च भङ्गे यतयः श्रावका निह्रवाश्च भवन्ति, केवलं प्रथमभङ्गे समानाभिग्रहा विसदृशभावना वेदितव्याः, द्वितीये भने पुनः समानभावना विसदृशाभिग्रहाः, अभिगयातः साधर्मिका भावनातश्च समानभावनाभिग्रहाः साधु श्रावकनिह्नवाः, नाभिग्रहतो नापि भावनातो विसदृशभावनाभिग्रहाः साधुश्रावकनिह्नवाः । अत्र चतुर्ष्वपि भङ्गेषु श्रावकनिह्नवानामर्थाय कृतं कल्पते नसाधूनामिति । तदेवमुक्ता एकविंशतिरपि चतुर्भङ्गिकाः, सम्प्रति सामान्यकेवलिनं तीर्थकरं चाधिकृत्य कल्प्याकल्प्यविधिं कथयति मू. (१७९/२) केवलनाणे तित्थंकरस्स नो कप्पइ कयं तु ॥ वृ. 'केवलज्ञाने' केवलज्ञानिनः सामान्यसाधोः, उपलक्षणमेतत्, तेन तीर्थकर प्रत्येकबुद्धवर्णानां शेषसाधूनामित्यर्थः, तीर्थकर तीर्थकरग्रहणमुपलक्षणं तेन प्रत्येकबुद्धस्य चार्थाय कृतं जथाक्रमं न कल्पते. तुशब्दस्यानुक्तार्थसमुच्चायकत्वात् कल्पते च, इयमत्रभावना - तीर्थकरप्रत्येकबुद्वर्जशेषसाधूनामर्थाय कृतं न कल्पते, तीर्थकर प्रत्येकबुद्धानां त्वर्थाय कृतं कल्पते, तथाहि तीर्थकरनिमित्तं सुरैः कृतेऽपि समवसरणं तत्र साधूनां देशनाश्रवणार्थमुपवेशनादि कल्पते. एवं भक्ताद्यपि, एवं प्रत्येकबुद्धस्यापि । पत्तेयबुद्ध निण्हव उवासए केवलीवि आसज्ज । मू. (१८० ) खड्याइए य भावे पडुच्च भंग उ जांएज्जा ।। वृ. प्रत्येकबुद्धान निलवान उपासकान' श्रावकान केवलिनः' तीर्थकरान अपिशब्दाच्छंषसाधूंश्राश्रित्य तथा क्षायिकादीनभावान' क्षायिकक्षायोपशमिकापशमिकानिदर्शनानि चशब्दाद्विचित्राणज्ञानानि चरणानि अभिग्रहान् भावनाश्र प्रतीत्य भङ्गान् योजयेत्, ते च तथैव योजिताः तत्र प्रथमचतुर्भङ्गिकां प्रवचनलिङ्गविष्यामधिकृत्य विशेषतः कल्प्याकल्प्यविधिमाह मू. (१८१ ) जन्य उतड़ओ भंगो तत्थ न कप्पं तु संसए भयणा । तित्थंकरकवलिणी जहकप्पं नो य सेसाणं ।। वृ. यत्र साधर्मिक तृतीयो भङ्गः प्रवचनतः साधर्मिका लिङ्गतश्रेत्येवंरूपस्तत्र न कल्पते, यतः प्रवचनतो लिङ्गतच साधर्मिकाः प्रत्येकबुद्धतीर्थकरवजां यतयः ततस्तेषामर्थाय कृतं न कल्पते. तुशब्दोऽनुक्तसमुच्च For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202