________________
मूलं- १७८ / १
साधर्मिका भावनातच न चरणतां नापि भावनातः अस्या उदाहरणान्यतिदेशत आह
मू. (१७८/२)
एवं तु भावणासुवि
वृ. यथा चरणेन सहाभिग्रहे उदाहृतम् एवं भावनास्वप्युदाहर्त्तव्यं, तच्चैवं चरणतः साधर्मिका न भावनातः समानचरणविभिन्नभावना यतयः १. भावनातः साधर्मिका न चरणतः समानभावना निह्नवाः श्रावका विभिन्नचरणा यतयश्व २, चरणतः साधर्मिका भावनातश्च समानचरणभावनना यतयः ३, न चरणतो नापि भावनातो 'विसदृशचरण भावनाः साधवो विसदृशभावनाः श्रावका निह्नवाश्र ४, अत्र चतुर्ष्वपि भङ्गकेषु कल्प्याकल्प्यविधिः प्रागिव । तदेवं चरणविषयेऽपि द्रे चतुर्भङ्गिके उक्ते, सम्प्रत्यभिग्रहभावनयोश्चतुर्भङ्गिकांवोच्छं दोपहतिमाणित्तो ॥
२१७
मू. (१७८/३)
वृ. इतिऊर्ध्वद्रयोरन्तिमयोः - अभिग्रहभावनालक्षणयोः पदयोचतुर्भङ्गिकामुढाहरणतोवक्ष्ये । तत्र तयोरियं चतुर्भङ्गिका अभिग्रहतः साधर्मिका न भावनातः, भावनातः साधर्मिका नाभिग्रहतः, भावनातः साधर्मिका अभिग्रहतच, नाभिग्रहतो नापि भावनातः । तत्राद्यं भङ्गद्रयमुदाजिहीर्षुराह
मू. (१७९/१) जड़णां सावग निण्हव पढमे बिड़ए य हुंति भंगे य।
वृ. अभिग्रहतः साधर्मिका न भावनात इत्येवंरूपै प्रथमे भङ्गे भावनातः साधर्मिका नाभिग्रहत इत्येवंरूपे द्वितीये च भङ्गे यतयः श्रावका निह्रवाश्च भवन्ति, केवलं प्रथमभङ्गे समानाभिग्रहा विसदृशभावना वेदितव्याः, द्वितीये भने पुनः समानभावना विसदृशाभिग्रहाः, अभिगयातः साधर्मिका भावनातश्च समानभावनाभिग्रहाः साधु श्रावकनिह्नवाः, नाभिग्रहतो नापि भावनातो विसदृशभावनाभिग्रहाः साधुश्रावकनिह्नवाः । अत्र चतुर्ष्वपि भङ्गेषु श्रावकनिह्नवानामर्थाय कृतं कल्पते नसाधूनामिति । तदेवमुक्ता एकविंशतिरपि चतुर्भङ्गिकाः, सम्प्रति सामान्यकेवलिनं तीर्थकरं चाधिकृत्य कल्प्याकल्प्यविधिं कथयति
मू. (१७९/२) केवलनाणे तित्थंकरस्स नो कप्पइ कयं तु ॥
वृ. 'केवलज्ञाने' केवलज्ञानिनः सामान्यसाधोः, उपलक्षणमेतत्, तेन तीर्थकर प्रत्येकबुद्धवर्णानां शेषसाधूनामित्यर्थः, तीर्थकर तीर्थकरग्रहणमुपलक्षणं तेन प्रत्येकबुद्धस्य चार्थाय कृतं जथाक्रमं न कल्पते. तुशब्दस्यानुक्तार्थसमुच्चायकत्वात् कल्पते च, इयमत्रभावना - तीर्थकरप्रत्येकबुद्वर्जशेषसाधूनामर्थाय कृतं न कल्पते, तीर्थकर प्रत्येकबुद्धानां त्वर्थाय कृतं कल्पते, तथाहि तीर्थकरनिमित्तं सुरैः कृतेऽपि समवसरणं तत्र साधूनां देशनाश्रवणार्थमुपवेशनादि कल्पते. एवं भक्ताद्यपि, एवं प्रत्येकबुद्धस्यापि । पत्तेयबुद्ध निण्हव उवासए केवलीवि आसज्ज ।
मू. (१८० )
खड्याइए य भावे पडुच्च भंग उ जांएज्जा ।।
वृ. प्रत्येकबुद्धान निलवान उपासकान' श्रावकान केवलिनः' तीर्थकरान अपिशब्दाच्छंषसाधूंश्राश्रित्य तथा क्षायिकादीनभावान' क्षायिकक्षायोपशमिकापशमिकानिदर्शनानि चशब्दाद्विचित्राणज्ञानानि चरणानि अभिग्रहान् भावनाश्र प्रतीत्य भङ्गान् योजयेत्, ते च तथैव योजिताः तत्र प्रथमचतुर्भङ्गिकां प्रवचनलिङ्गविष्यामधिकृत्य विशेषतः कल्प्याकल्प्यविधिमाह
मू. (१८१ )
जन्य उतड़ओ भंगो तत्थ न कप्पं तु संसए भयणा । तित्थंकरकवलिणी जहकप्पं नो य सेसाणं ।।
वृ. यत्र साधर्मिक तृतीयो भङ्गः प्रवचनतः साधर्मिका लिङ्गतश्रेत्येवंरूपस्तत्र न कल्पते, यतः प्रवचनतो लिङ्गतच साधर्मिकाः प्रत्येकबुद्धतीर्थकरवजां यतयः ततस्तेषामर्थाय कृतं न कल्पते. तुशब्दोऽनुक्तसमुच्च
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org