Book Title: Agam Sutra Satik 41B Pindniryukti MoolSutra 2b
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 137
________________ ३६८ पिण्डनिर्मुक्तिः- मूलसूत्रं `आहारदिलोभन' भक्त पात्रवस्तुतुब्धतया श्रमणेषु ब्राह्मणेषु कृपणातिथिश्वभक्तेषु वनति भक्तमात्मानं दर्शयतीति वनीपकः, पूर्ववदाणादिक ईपकप्रत्ययः । सम्प्रति बावन्तः श्रमणशब्दवाच्यास्तावतो दर्शयित्वा तेषु वनपत्यं यथा भवति तथा दर्शयति मू. (४८३) निग्धं सक्क तावस गेरुय आजीव पंचहा समणा । तेसि परिवेसणाए लोभेन वणिज्न को अप्पं ? वृ. 'निर्ग्रन्थाः' साधवः 'शाक्याः' मायासूनवीयाः, 'तापसाः' वनवासिनः पाखण्डिनः 'गॅरुका:' गेरूकरनिवाससः परिव्राजकाः 'आजीवकाः ' गोशालकशिष्या इति 'पञ्चधा' पञ्चप्रकाराः श्रमणा भवन्ति एतेषां च यथायोगं गृहमृसु समागतानां परिवेषणे' भोजनप्रदाने क्रियमाणे सति कोऽप्याहारलम्पटः साधुः 'लोभेन' आहारादिलुब्धतया वनति - शाक्यादिभक्तमात्यानं दर्शयति, तद्भक्त गृहणिः पुरत इति सामर्थ्यगभ्यम् । इह प्रायः शाक्या गेरुका वा गृहिगृहेषु भुञ्जते ततस्तान भृञ्जानानधिकृत्य यथा साधुर्वनीपकत्वं कुरुते तथा दर्शयतिमू. (४८४) भुंजति चित्तकम्मं ठिया व कारुणिय दानरूणां वा । अवि कामगवि न नसई किं पुन जईसु ? ।। वृ. एवं नाम निश्चला भगवन्तोऽमी शाक्यादयो भुञ्जते तथा चित्रकर्मलिखिता इव मुञ्जाना लक्ष्यन्ते, तथा परमकारुणिका एते दानरुचयश्र, तत एतेभ्योऽवश्यं भोजनं दातव्यम्, अपि च 'कामगर्दभेष्वपिं मैथुने गद्दमेष्विवातिप्रसक्ते ब्राह्मणेष्वितिगम्यते, दत्तननश्यति, किंपुनरमीषु शाक्यादिषु ?, एतेभ्योदत्तमतिशयेन बहुफलमिति भावः, तस्माद्दातव्यमेतेभ्यो विशेषतः । अत्रदोषान् दर्शयति मू. (४८५) मिच्छत्तथिरीकरणं उग्गमदोसा य तेसु वा गच्छे । चडुकारदिन्नदाणा पञ्चत्थिग मा पुणो इतुं ॥ बृ. एवं हि शाक्यादिप्रशंसने लोक मिध्यात्वं स्थिरीकृतं भवति, तथाहि साधवोऽप्यमून् प्रशंसन्ति तस्मादेतेषांधर्मःस॒त्यइति, तथायदिभक्त भद्रकाभवेयुः ततइत्थंसाधुप्रशंसामुपलभ्यतद्योगभाधाकर्मिकादि समाचरेयुः, ततस्तल्लुत्तया कदाचित्साधुवेषमपहाय तेषु शाक्यादिषु गच्छेयुः, तथा लोके चटुकारिण एते जन्मान्तरेऽप्पदत्तदानाआहाराद्यर्थप्रशंसावचनमज्ञायेत्थं ब्रूयुः मापुनरत्रभवन्त आयान्त्विति । ब्राह्मणभक्तानां पुरतो ब्राह्मणप्रशंसारूपं वनीपकत्वं यथा करोति तथा दर्शयतिलोयानुग्गहकारिसु भूमीदेवेस बहुफलं दानं । मू. (४८६ ) अवि नाम बंभबंधुसु किं पुन छक्कम्मनिरपसु ? ॥ वृ. पिण्डप्रदानादिना लोकोपकारिषु भूमिदेवेषु ब्राह्मणेष्वपिनाम ब्रह्मबन्धुष्वपि जातिमात्रब्राह्मणेष्वपि दानंदीयमानं बहुफलं भवति, किं पुनर्यजनयाजनादिरूपषटकर्मनिरतेषु ? तेषु विशेषना बहुफलं भविष्यतीति भावः । सम्प्रति कृपणभक्तानां पुरतः कृपणप्रशंसारूपं वनीपकत्वं यथा समाचरति तथा प्रतिपादयतिमू. (४८७) किवणेसु दुम्मणेसु य अबंधवायकजुगियगसु । पूया हिज्जे लोए दानपडागं हरड़ दितो || वृ. इहलोक - पूजाहार्यः पूजयाहियत आवर्ज्यत इति पूजाहार्यः पूजितपूजको न कोऽपि कृष्णादिभ्यां ददाति, ततः कृपणेषु तथेष्टवियोगादिना दुर्मनस्सु तथाऽबान्धवेषु तथाऽऽतङ्कको ज्वरादिस्तद्योगादात द्विनोप्यातङ्कास्तेषु तथा 'जुङ्गिताङ्गेषु' च कर्त्तितहस्तपादाद्यवयेषु निराकाङ्गतया दददस्मिल्लांके दानपताकां 'हरति गृह्णाति । साम्प्रतमतिथिभक्तानांपुरतोऽतिथिप्रशंसारूपंवनीपकत्वं यथासाधुर्विदधातितथादर्शयति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202