Book Title: Agam Sutra Satik 41B Pindniryukti MoolSutra 2b
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 28
________________ मूलं.७० २५१ पिण्डःक्षेत्रपिण्डइतिव्युत्पत्तेः,यदातुकालताऽवस्थानमधिकृत्यकालप्राधान्यविवक्षयाकालेनव्यपदेशोयथाएकसामयिको द्विसामयिकइत्यादितदासकालपिण्डोऽपिभण्यते, कालतोव्यपदिष्टः पिण्डःकालपिण्डइति समासाऽऽश्रयणात, अथवा विप्रदेशाद्यात्मकक्षेत्रपिण्डे यदिवा त्रिसमयाद्यात्मके कालपिण्डे यदवस्थित पुद्गलद्रव्यं तत्तदादेशात् क्षेत्रकालव्यपदेशात्-क्षेत्रकालोपचारादित्यर्थः, यथाक्रम क्षेत्रपिण्डः कालपिण्डः । प्रकारान्तरेणसोपचारीक्षेत्रकालपिण्डावाह. 'जत्थजयातत्परूवणया' 'यत्र' वसत्यादौयदाप्रथमपौरुष्यादा 'तत्परूपणा' पिण्डप्ररूपणा क्रियते स पिण्डः प्ररूप्यमाणो नामादिपिण्डो वसत्यादिक्षेत्रमाधिकृत्यक्षेत्रपिण्ड उच्यते. यथाऽमुकवसतिरूपक्षेत्रपिण्डइति, प्रथमौरुष्यादिकंतुकालमधिकृत्यकालपिण्डोयथाऽमुकप्रथमप्रहरादिरूपःकालपिण्डइति।। इहतिन्निउएएससमया' इत्यत्रपरआक्षेपमाह-ननुमूर्तेषुद्रव्येषुपरस्परमनुवेधतः सङ्घयाबाहल्यतश्चपिण्डइतिव्यपदेशो घटते, क्षेत्रकालयोस्तुनपरस्परमनुवेधोनापिकालेसङ्ख्याबाहुल्यं, तथाहि-क्षेत्रमाकाशमुच्यते 'खेत्तं खलु आगास' मिति वचनात. तञ्च नित्यमकृत्रिमत्त्वात, ततः सदैव विविक्त प्रदेशात्मकतयाव्यवस्थितामितिकथमाकाशप्रदेशानामनुवेधः?,एकत्र मिश्रणाभावात,कालोऽपि पूर्वापरसमयविकिक्तोवार्त्तमानिकसमयरूपएएवपारमार्थिकः, पूर्वापरसमयोविनष्टानुत्पन्नत्वेनपरमार्थतोऽसत्त्वात्, संताचपरस्परमनुवेधः सङ्ख्याबाहुल्यं वा नासतंसदसतांवा,ततःकालद्वयमपिनोपपद्यते इतिकथं तत्र पिण्ड इतिव्यपदेशः?, अत्र प्रतिविधानमभिधित्सुराह मू. (७१) मुत्तदविएसु जुज्जइ जइ अन्नोऽन्नाणुवेहओ पिंडो। मुत्तिविमुत्तेसुवि सो जुज्जइ ननु संखबाहुल्ला ।। वृ. ननुयदि मूर्तेषु द्रव्येषु अन्योऽन्यानुवेधतः' परस्परानुवेधतः, संखवाहुल्ला' इत्यप्यत्र सम्बध्यते, 'सङ्ख्याबाहुल्पतश्र द्वयादिसङ्ख्यासम्भवतश्च पिण्ड इति व्यपदेशो 'युज्यते' योगमुपौति घटते इत्यर्थः, तर्हि स पिण्ड इति व्यपदेशः मूत्तिविमुक्तेष्वपि' मूत्तिरहितेष्वपि अमूत्तेष्वित्यर्थः, क्षेत्रप्रदेशकालसमयेषु युज्यते, तत्रापि पिण्डशब्दप्रवृत्तिनिमित्तस्यपरस्परानुवेधस्यसङ्ख्याबाहुलस्यचसम्भवात्तथाहि-सर्वेऽपि क्षेत्रप्रदेशाःपरस्परंनैरन्तर्यलक्षणेनसम्बन्धेनसम्बदाअवितिष्ठन्ते,ततोयथावादरनिप्पादितिचतुरस्रादिधने परस्परनैरन्तर्यरूपानुवेधनः शङ्ख्याबाहुल्यतश्च इति व्यपदेशः प्रवर्तते तथा क्षेत्रप्रदेशेष्वपि पिण्डशब्दप्रर्वत्तमानोनविरुध्यते, तत्रापिपूरस्परनरन्तर्यरूपस्यानुवेधस्यसङ्ग्याबाहुल्यस्यचसम्भवात्, तथाकालोऽपि परमार्थतःसन्द्रव्यंच,ततःसोऽपिपरिणामी, सतः सर्वस्यपरिणामित्वाभ्युपगमाद, अन्यथा सत्त्वायोगात, एतश्चान्यत्रधर्मसङ्ग्रहणिटीकादौ विभावितमितिनेहभूयोविभाव्यते,ग्रन्थगौरवभयात.परिणामी चान्वयी तेनतेनरूपण परिणमान उच्यते, ततोऽस्तिवार्त्तमानिकस्यापि समयस्यपूर्वापरसमधाभ्यामनुवेधः, केवलं तो बापरसमयावसन्तावपि बुद्धया सन्ताविव विवक्षितौ, ततः सङ्ख्याबाहूल्यमपि तत्रास्तीति पिण्डशब्दप्रवृत्त्यवियराधः । सम्प्रति क्षेत्र पिण्डशब्दप्रवृत्त्यविरोधं दृष्टान्तद्वारेण समर्थयतेमू. (७२) जह तिपएसो खंधो पएसेसु जो समोगाढो। अविभागिण संबद्धो कहं तु नेवं तदाधारो? वृ. यथा कश्रिदनिर्दिष्टव्यक्तिकः त्रिप्रदेशिकः त्रिपरमाण्वात्मकःस्कन्धस्त्रिध्वप्याकाशप्रदेशांचवगाढी न त्वेकस्मिन् द्वयो।त्यपिशब्दार्थः 'अविभागेन सम्बन्धो' विभागो- 'नरन्तर्याभावस्तदभावोऽविभागो नैरन्तर्यमित्यर्थः तेन सम्बन्धो नैरन्तर्यसम्बन्धसम्बद्ध इति भावः, पिण्डइतिव्यपरिदश्यते, नैरन्तर्येणावस्थानभावात, सङ्ग्याबाहुल्यतश्च, एवं त्रिप्रदेशावगाढत्रिपरमाणुस्कन्ध इव तदाधारः-त्रिपरमाणुस्कन्धाधार Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202