Book Title: Agam Sutra Satik 41B Pindniryukti MoolSutra 2b
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२७०
पिण्डनियुक्तिः मूलसूत्र विनिपातकार्राणिपापकर्माणिसंवन्तेतसचतनाअपिमोहमयजनद्रापहतविवेकचेतनत्वादचतनावपरमार्थतो बेदितव्याः, यदपि च तेषा शास्त्रादिपरिज्ञानं तदपि परमार्थतः शरीरायासफलं, यद्वा तदपि पापानुबन्धिकम्मोदयतस्तथाविधक्षयोपशमनिबन्धनत्वादशुभकर्मकार्येवेति तत्त्ववेदिनामुपेक्षास्पदं, विद्वत्ता हि सा तत्त्ववेदिनांप्रशंसाए यायथाऽवस्थितंवस्तुविविच्यहेयोपासेयहानोपादानप्रवृत्तिफला, यातुसकलजन्माभ्यासप्रवृत्त्या कथमपि परिपाकमागताऽपि सती सदैव तथाविधयापकम्मोदयवशत एकान्ताशचिरूपेष्वपि युवतिजनवदनजघनवक्षोरुहादिशरीरावयवेषु रमणीयकव्यावर्णनफला सा इहलोकेऽपि शरीरायासफला परलोके च कुगतिविनिपातहेतुरित्युपेक्षणीया, ये पुनः परमर्षयः सर्वदैव सर्वज्ञमतानुसारितकांगमशास्त्राभ्यासतो विदितयथाऽवस्थितहेयोपादेयवस्तवइत्थं शरीरस्याशुचिरूपतां परिभाव्य युवतिकलेवरेषु नाभिरज्यन्तेनापि कर्माणिस्वशरीस्कृते पापानिसमाचरन्ति किन्तु शरीरादिनिस्पृहतया निरन्तरं सम्यक्शास्त्राभ्यासतो ज्ञानामृताम्भोधिनिमग्नाः सममित्रशत्रवः परिषहादिभिरजिताः सकलकर्म-निम्मलनाय यतन्ते ते धन्यास्त तत्त्ववेदिनस्तानहं नमसकरोमि तदनुष्ठितं च मार्गमिदानीमनुतिष्ठामि, इत्येवं तस्य मोदकप्रियस्यकुमारस्यवैराग्योद्गमनसम्यग्दर्शनज्ञानचारित्राणामुद्गमोबभूव, ततःकेवलज्ञानोदगमइति ।
तदेवमुक्तं मोदकप्रियकुमारकथानकं, सम्प्रतियदुक्तं चारित्रोद्गमेनाधिकार' इति,तत्रचारित्रस्यो. दगमेनाधिकारः शुद्धस्यद्रष्टव्योनाशुद्धस्य, अशुद्धस्य मोक्षलक्षणकार्यसम्पादकत्वायोगात्, नखलुबीजमुपहतमङ्करं जनयति, सर्वत्राप्यनुपहतस्यैव कारणस्य कार्यजनकत्वात, चारित्रसद्य च शुद्धः कारणं द्विधा, तद्यथा-आन्तरं बाह्य च, ते द्वे अपि प्रतिपादयतिमू. (१०६) . दसणनाणप्पभवं चरणं सुद्धेसु तेसु तस्सुद्धी।
चरणेन कम्मसुद्धी उम्गमसुद्धा चरणसुद्धी॥ वृ. इह यतो ज्ञानदर्शनपयभवं चारित्र, ततस्तयोः शुद्धयोस्तस्य चारित्रस्य शुद्धिर्भवति नान्यथा, तस्मादवश्यं चारित्रशुद्धिनिमित्तं चारित्रिणा सम्यग्ज्ञाने सम्यग्दर्शने च यतितव्यं, यत्नच निरन्तरं सद्गुरुचरणकमलपर्युपासनापुरस्सरं सर्वज्ञमतानसिरितांगमशास्त्राभ्यासकरणम्, एतेन चारित्रशुद्धेरान्तरंकारणमुक्तम,अथचारित्रशुद्ध्याऽपिकिंग्रयोजनंयेनेत्यंतच्छन्द्रिरन्वेष्यते?.अतआह-चरणेन कर्मशुद्धिः, चरणेनविशुद्धेनकर्मणो ज्ञानावरणीयादिकस्यशुद्धिः अपगमोभवति, तदपगमेचात्मनोयथाऽवास्थितस्वरूपलाभात्मको मोक्षः, ततो मोक्षार्थिनाचरणशुद्धिरपेक्ष्यते. तथा न केवलयोरेव ज्ञानदर्शनयोः शुद्धी चारित्रशुद्धिः किन्तूद्गमशुद्धी चारित्रशुद्धिः। एतेनबाह्य कारणमुक्तं ततश्चरणशुद्धिनिमित्तसम्यगदर्शनज्ञानवतापि नियमत उद्गमदोषपरिशुद्ध आहारो ग्राह्यः॥ त चोद्गमदाषा: षोडशः निर्दिशति मू. (१०७) आहाकम्मुद्दसिय पूईकम्मे ये मीसनाए य।
ठवणा पाहुडियाए पाओअर कीय पामिच्च ।। म. (१०८) परियट्टिए अभिहड उभिन्न मालोहड इय।
अच्छिज्ने अनिसट्टे अज्झायरए य सोलसमे॥ वृ, 'आधाकम्मंति' आघानं आघा 'उपसर्गादात' इत्याप्रत्ययः, साधुनिमित्त चेतमः प्रणिधानं. यथाऽमुकस्य साधोः कारणेनमा भक्तादिपचनीयमिति, आधया कर्म-पाकादिक्रिया आधाकर्म तद्योगाद् भक्ताद्यप्याधाकर्म,इहदोषाभिधानप्रक्रमेऽपियघोषवतोऽभिधानंतदोषदोषवत्तोरभेदविवक्षयाद्रष्टव्यं, यद्वाआधाय साधुंचेतसिप्रणिधाययत्क्रियतेभक्तादितदाधाकर्म, पृषोदरादित्वाद्यलोपः. १, तथा उद्देशनम् For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
Loading... Page Navigation 1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202