Book Title: Agam Sutra Satik 41B Pindniryukti MoolSutra 2b
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मूलं. १९२
२७३
वृ. औदारिकं शरीरं येषां ते आवारिकशरीराः- तिर्यश्री मनुष्यान, तत्र तिर्यञ्चः एकेन्द्रियादयः पञ्चेन्द्रियपर्यन्ता द्रष्टव्याः. एकेन्द्रिया अपि सूक्ष्मा बादराथ, नन्विह वेऽपद्रावणयांग्यास्तिर्यञ्चस्ते ग्राह्याः, न च सूक्ष्माणां मनुष्यादिकृतमपद्रावणं सम्भवति, सूक्ष्मत्वादेव, ततः कथं ते इह गृह्यन्ते ?, उच्यते, इह यो यस्मादविरतः सतदकुर्व्वन्नपिपरमार्थतः कुर्व्वन्नेव अवसेयो यथा रात्रिभोजनादनिवृत्तो रात्रिभोजनं, गृहस्थश्र सूक्ष्मैकेन्द्रियापद्रावणादनिवृत्तः, ततः साध्वर्थ सअमारम्भं कुर्वन् स तदपि कुर्व्वन्नवगन्तव्य इति सूक्ष्मग्रहणं, श्रद्धा-एकेन्द्रिया बादरा एव गयाह्या नसूक्ष्माः, तथाच वक्ष्यति भाष्यकृत् "ओरालग्गहणेणं. तिरिक्खमनुयाहवा सुहुमवज्जा" तेषामौदारकशरीराणां यदपद्रावणम् - अतिपातविवर्जिता पीडा, किमुक्तं भवति ?सार्ध्वमुपस्क्रियमाणेष्वोदनादिषु यावदद्यापि शाल्यादिवनस्पतिकायादीनामतिपातः प्राणव्युपरमलक्षणोन भवतितावदर्वाग्रर्त्तिनी सर्वाऽपिपीडा अपद्रावणं, यथा साध्वर्थं शाल्योदनकृते शालिकरटेयविद्वारद्वयं कण्डनं, तृतीयं तु कण्डनमतिपातः तस्मिन् कृते शालिजीवानामवश्यमतिपातभावात. ततस्तृतीयं कण्डनमतिपातग्रहणेन गृह्यते वक्ष्यतिचभाष्यकृत-" उदवणं पुण जाण आडवायविवाज्जियं पीड"ति, उद्दवणशब्दात्पुरता विभक्तिलोप आर्षत्वात्, तथा तिपायणं' ति त्रीणिकायवाग्मनांसि यद्धा त्रीणि देहायुरिन्द्रियलक्षणानिपातनं चातिपातोविनाशइत्यर्थः, तत्रचत्रिधासमासानिवक्षा, तद्यथा-षष्ठीतत्पुरुषः पञ्चमीतत्पुरुष- स्तृतीयातत्पुरुषश्च तत्र षष्ठीतत्पुरुषोऽयं त्रयाणां कायवाङ्मनसां पातनं विनाशनं त्रिपातनम, एतच्च परिपूर्णगर्भजपचेन्द्रियतिर्यग्मनुष्याणामवसेयम्, एकेन्द्रियाणां तु कायस्यैव केवलस्य विकलेन्द्रियसम्मूर्च्छिमतिर्यग्मनुष्याणां तु कायवचसोरेवेति यद्रा - त्रयाणां देहायुरिन्द्रियरूपाणां पातनं विनाशनं त्रिपातनम् इदं च सर्वेषामपि तिर्यग्मनुष्याणां परिपूर्ण घटते, केवलं यथा येषां सम्भवति तथा तेषां वक्तव्यं यथैकेन्द्रियाणां देहस्यऔदारिकस्य आयुषः- तिर्यगायूरूपस्य इन्द्रियस्य- स्पर्शनेन्द्रियस्य, द्वीन्द्रियाणां देहस्यौदारिकरूपस्य आयुषस्तिर्यगायुकइन्द्रिययोश्च स्पर्शन रसनलक्षणयोरित्यादि, पञ्चमीतत्पुरुषस्त्वयं-त्रिभ्यः - कायवाङ्मनोभ्यो देहायुरिन्द्रियेभ्यो वा पातनं - च्यावनमिति त्रिपातनम्, अत्रापि त्रिभ्यः परिपूर्णेभ्यः कायवाङ्मनोभ्यः पातनं गर्भजपञ्चेन्द्रियतिर्य१मनुष्याणाम् एकेन्द्रियाणां तु काजादेव केवलाद् विकलेन्द्रियसंमूर्च्छिमतिर्यङ्गनुष्याणां तु कायवाग्भ्यामिति, देहायुरिन्द्रियरूपेभ्यस्तु त्रिभ्यः पातनं सर्वेषामपि परिपूर्ण सम्भवत, केवलं यथा येषां सम्भवतित्तथा तेषां प्रागिववक्त व्यं, तृतीयातत्पुरुषः पनरयं-त्रिभिः कायवाङ्गनोभिर्विनाशकेनस्वसम्बन्धिभिः पात्तनं विनाशनं त्रिपातनं, चशब्दः समुच्चये, भिन्न- विभक्ति निर्देशशब्दोपादानंचयस्य साध्वर्थमपद्रावणं कृत्वा गृही स्वाथरमतिपातं करोनि तत्कल्प्यं, यस्य तु गृही त्रिपातनमपि साध्वर्थ विधत्ते तन्न कल्प्यमिति ख्यापनार्थम्, इत्थंभूतमौदारिकशरीराभाणमपद्रावणं त्रिपातनं चयस्य साधेरेकस्यानेकस्य वाऽर्थाय निमित्तं 'मन आघाय' चित्तं प्रवत्त्यं क्रियते तदाधाकम्पं ब्रुवत तीर्थकरगणधराः ॥ इमामेव गाथां व्याख्यानयतिमू. (११३) ओरालग्गहागंणं तिरिक्खमनुयाऽहवा सुहुमवना ! उदवणं पुन जाण अवायविवज्जियं पीडं । कायवमणो तिनि उ अहवा देहाउइंदियप्पाणा । सामित्तावायाणे होड तिवाओं य करणेसुं ।। हयियंमि समाहेउं एगमणंगं च गाहगं जो उ । वहणं करेड़ दाया कायेण तमाह कम्मति ॥
मू. (११४)
[भा. १६]
[भां. १०]
मू. (११५)
[भा. १९]
वृ. सुगमाः, नवरं 'देहाउइंदियप्पाणे' ति देहायुरिन्द्रियरूपास्त्रयः प्राणाः, 'सामित्ते 'त्यादि, स्वामित्वे
2618
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202