Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सुमणि-स्वप्नः-निन्द्रावशविकल्पज्ञानः। सम० १७ स्वप्नं -स्वप्नफलाविर्भावकम्। सम०४९। स्वप्नंस्वप्नफलम-पचारात् स्वप्नम्। सम० १८स्वप्नःनिद्राविक्रमः। प्रश्न. १०९। सुमिणगदंसणोवम-स्वप्नदर्शनोपमः। उत्त. ३२९। सुमित्त-द्वितीयचक्रवर्तिपिता। सम० १५२। सुमित्रःशान्ति-जिनप्रथमभिक्षादाता। आव० १४७। मल्लिनाथसहप्रव्रजकः तृतीयो राजकुमारः। ज्ञाता० १५०| शान्तिनाथजिनप्रथम-भिक्षादाता। सम०१५१ पञ्चमजिनपूर्वभवनाम। सम० १५१। सुमित्तविजए- सुमित्रविजयः-सगरचक्रीपिता। आव०
१६३ सुमित्तु-सुमित्रः-मुनिसुव्रतपिता। आव० १६१। सुमुख-अभिष्टवक्ता पुरुषः। स्था० ४३। सुमुह- यादवविशेषः। ज्ञाता०२१३। अन्तकृद्दशानां तृतीय-वर्गस्य नवममध्ययनम्। अन्त०३ अन्तकृद्दशायामणगारः। अन्त०१४। सुमुखः यदोरपत्त्यः । प्रश्न०७३। सुमुखः-हस्तिनागपुरे गाथापतिः। विपा० ९११ सुमेघा-उर्ध्वलोकवास्तव्या दिक्कुमारी। आव० १२२ सुमेहा- सुमेघा तृतीया दिक्कुमारीमहत्तरिका। जम्बू.
૨૮૮૫. सुयंगा- श्रुतं-श्रुतज्ञानं अङ्ग-कारणं यस्याः सा श्रुताङ्गाः,
अहिंसाया नवमं नाम। प्रश्न. ९९। सुय-श्रुतं-विशिष्टमत्यंशरूपः। स्था० ३४८ श्रुतं-दवादशा
ङ्गम्। स्था० ५२। श्रूयते तदिति श्रुतं-शब्द एव स च । भाव-श्रुत कारणम्। स्था० ४६। श्रुतं-ग्रंथः। स्था० ४४५। श्रूयत इति श्रुतं शब्द एव, भावश्रुतकारणत्वात्, श्रूयतेऽनेनेति श्रुतं, तदावरणक्षयोपशमः, श्रूयतेऽस्मादिति श्रुतं, तदावरण-क्षयोपशमः, श्रूयतेऽस्मिन्निति वा क्षयोपशमः, शृणोतीति वाऽऽत्मैव तदुपयोगानन्यत्वात्। आव०७ श्रुतं-दवितीया परिज्ञा। व्यव० ३९१ अ। श्रवणं-श्रुतं अभिलाषप्लावितार्थग्रहणस्वरूप उपलब्धिविशेषः। अनुयो० २। शुकः-कीरः। प्रश्न०८ श्रुतंप्रतिविशिष्टार्थप्रतिपादनफलं वाग्योगमात्रं, भगवता निसृष्टमात्मीयश्रवणकोटरप्रविष्टं
क्षायोपशमिकभावपरिणामाविर्भावकारणं श्रुतम्। दशवै. १३६। श्रूयत इति श्रुतं-शब्द एव, भावश्रुतकारत्वात्, कारणे कार्योपचाराद, श्रूयते वा अनेनास्मदस्मिन्वेति श्रुतं, तदावरणकर्मक्षयोपशमः, आत्मैव वा श्रुतोपयोगपरिणामा-नन्यत्त्वात् शृणोतीति श्रुतम्। स्था० ३४७। सूत्र्यन्ते सूच्यन्ते वाऽथां अनेनेति सूत्रम्। स्था० ५२ श्रुतं-द्वादशाङ्गीरूपम-हत्प्रवचनम्। भग०६। स्मृतं-प्रतिपादितं अनुचिन्तितं वा। भग०६५। स्मृतंअनुध्यातम्। भग० १००| स्मृतमिव स्मृतं स्पष्टप्रतिभासभावात्। भग० ३१६। श्रुतं-आकर्णितम्। भग० १००| श्रुतं-वाच्यवाचकभावपुरस्सरीकारेण शब्दसंस्पृष्टार्थग्रहणहेतुरूपलब्धिविशेषः, एवमाकारं वस्तु घटशब्द-वाच्यं जलधारणाद्यर्थक्रियासमर्थमित्यादिरूपतया प्रधानीकृतः समानपरिणामः, शब्दार्थपर्यालोचनानुसारी इन्द्रियम-नोनिमित्तोऽवगमविशेष इत्यर्थः। प्रज्ञा. ५२६। श्रुतं-आक-र्णितं, अवधारितम्। उत्त० ८०| श्रुतंसामायिकादिबिन्दु-सारान्तं शास्त्रम्। आव०६०४। श्रुतंकषायोपशमहेतुः श्रुतान्तर्गतोपदेशः। उत्त० ५०६। श्रूयते तदिति श्रुतं-शब्द-मात्रम्। उत्त० ५५६। श्रुतं-आकर्णितंअवगतं अवधारितम्। आचा० १११ श्रुतं-आकर्णितम्। उत्त० २८४। सूत्र्यन्ते सूच्यन्ते वाऽर्था अनेनेति सूत्रम्। स्था० ५२॥ सुयकरणं- श्रुतकरणं व्याकरणादिपरिज्ञानरूपोऽवस्थाविशेषोऽपरकलापरिज्ञानरूपश्च, उत्तरकरणे दवितीयः। सूत्र
५ सुयकेवली- श्रुतकेवली, सुयकेवली-पण्णवणं पडुच्च केवलीवद्भवति कथमुच्यते चउव्विहे जाणणे य गहणे य तुल्ले रागदोसे अणंतकायस्स वज्जणया एकाणि दाराणि अण्णे य पयत्थे जहा केवली पण्णवेइ तहा सअधरोऽवि। निशी. १३९ अ। सुयक्खंध- श्रुतस्कन्धः-अध्ययनसमुदायलक्षणः। सम०
१०८1 सुयक्खायधम्म-सष्ठ दाख्यातो धर्मोऽस्येति स्याख्यातधर्मा, संसारभीरुत्वादयथारोपितभारवाहीत्यर्थः। आचा० २४४।
मुनि दीपरत्नसागरजी रचित
[128]
"आगम-सागर-कोषः" [१]

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169