________________
ॐARASHTRA
भग्नतन्दुलप्रस्थकरणं, सणवीज १ लाज २ कुलत्थ ३ यव ४ कगु ५ माष ६ सर्षप ७ रूपसप्तधान्यमीलनं, धान्य १ मुद्ग २ माष ३ चणक ४ यव ५ गोधूम ६ तिल ७ रूपं सप्तधान्यन्यत् । सण १ कुलस्थ २ मसूर ३ वल्ल ४ चणक ५ वीहि ६ चपलक ७ रूपं सप्तधान्यमन्यत् । कर्पूरकस्तूरीश्रीखण्डागरुकुङ्कुमसिल्हक कुष्टमांसीमुराप्रभृतिगन्धकालागरुदशाङ्गपश्चाङ्गद्वादशाङ्गद्वात्रिंशदङ्गसिल्हकस रसकुन्दुरकप्रभृतिधूपाः कर्पूरकस्तृरिकापुष्पवासवासितश्रीखण्डचूर्णवासाः सुरससुगन्धपञ्चवर्णपुष्पजात्यानयनं सुवर्णरूप्यप्रवालराजावर्तकमौक्तिकपञ्चरत्नाष्टकसंग्रहः कौसुम्भकङ्कणविंशतिप्रगुणीकरणं श्वेतसर्षपानयनमष्टमसर्षपपोहलिकाकरण सिद्धार्थदधिघृताक्षततन्दुलाचन्दनजलरूपार्यप्रगुणीकरणं दर्पणानयनमृद्धिवृद्धिमदनफलसमेतकङ्कणकाष्ठककरणं वेदिचतुष्टयकरणं दशजववारशराववापनं दशजववारशरावकरणं षत्रिंशदुत्तरशतमृत्तिकाकलशकरणमेकरूप्यकचोलिकाकरणं सुवर्णशलाकैककरणं नन्द्यावर्तपदं श्रीपर्णीमयमेकं तस्य प्रगुणीकरणमाच्छादनपट्टद्वादशहस्तमिताः षट्, एका मातृशाटिका दशहस्ता मुद्ग ५ यव ५ गोधूम ५ चणक ५ तिलमया ५ प्रत्येकं पञ्चपञ्चपञ्चविंशतिकर्करिकाः सर्वे प्रत्येकमाण(ढ)कप्रमाणाः मोदककरण बाटकरण क्षरेयीकरणं करम्बकरणं कृसराकरणं भक्तकरणं घृतखण्डसंमिश्रपोलिकाचूर्णकरणं पूपिकाकरणं प्रत्येकमेतेषां वस्तूनां कृते शरावसम्पादनं तथा नालिकेरक्रमुकद्राक्षाखर्जूरशर्करावर्षोपलवाताप्राप्तफलवीरण्टकदाडिमबीजपूराम्रेक्षुकदलीफलजम्बीरकरुणाराजादनबदराक्षोटोदारचारकलिकानिमन्जकपिशङ्गमभृत्याशुष्कफलानयनं ततो वेष्टितं
For Private & Personal Use Only
Jan Education
anal
CLw.jainelibrary.org
LAY