Book Title: Achar Dinkar
Author(s): Vardhmansuri,
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
View full book text
________________
माचारदेनकरः
२७१॥
वारयति तदा मुख्यसाधोः उपवासः ४१ गीतार्थो न वारयति तदा तस्य पूर्वार्ध, अगीतार्थो न वारयति तस्थापि पूर्वाघ, गुरुस्तद्वारितो न तिष्ठति तदा गुरोः उपवासः ४१ त्रिकालं गणालोकाकरणे सूरे सलघुमार्गे ग्लाने दुर्भिक्षे बालवृद्धादिकार्ये दुर्लभद्रव्यनिमित्तं यथाचार्योऽहमित्यालम्बमालम्ब्यान्यैस्तस्मिन्नप्राप्यमाणे भिक्षां न भ्रमति तदा १ उपवासः । भिक्षुर्गुरोः पृथग्वसतिमालघु उपाश्रयबहिर्वासे ४१ एकोपाश्रये पृथगपवरके वसतो गीतार्थस्य एकशतम् ॥ ॥ तथा आलोचनागाथाकथनानन्तरं ज्ञानाचारे पुस्तकाद्याशातनाप्रश्नः । दर्शनाचारे शङ्काकाक्षादिमिथ्यात्वाङ्गप्रश्नः । चारित्राचारे पञ्चमहाव्रतद्वादशवतभङ्गादिप्रश्नः । तपआचारे द्वादशविधः तपोभङ्गादिप्रश्नः । वीर्याचारे सत्यां शक्ती तपआचारपालना अकरणप्रश्नः। तदनन्तरं क्रोधादिकषाय अष्टादशपापस्थानप्रश्नः । आलोचनायां पुरातनी तपः संज्ञा । यथा-"लहुमास मासलहु भिन्नमास पुरिमढनाम नायव्वा । मासगुरू गुरुमासं एगासणस्स नामाई ॥१॥ पणगं पुण नीवीरांचउल्लाह अंबिलं च नायब्वं । चउगुरुखवणं उववास नाम सिद्धन्तिणो चिंति ॥२॥ एगकल्लाणगं पुण छटुं झग्गुरु अ अट्टम होइ । पंचकल्लाणगं पुण दस उववासा मुणेअव्वा ॥३॥ इति प्रायश्चित्तकीर्तनो नाम उद्यः॥
RAKARMIRRIERec
॥२७॥
Jan Education international
For Private & Personal use only
Malaw.jainelibrary.org

Page Navigation
1 ... 563 564 565 566